SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे 5 तथा- अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे जरासंधे ॥ [आव० भा० ४२] त्ति । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे वि चक्कजोही सव्वे वि हया सचक्केहिं ।। [आव० भा० ४३] ति । अणियाणकडा रामा सव्वे वि य केसवा नियाणकडा । उड्ढंगामी रामा केसव सव्वे अहोगामी ।। [आव० नि० ४१५] ति । आगमिस्सेणं ति आगमिष्यता कालेन आगमेस्साणं ति पाठान्तरे आगमिष्यतां भविष्यतां मध्ये सेत्स्यतीति ॥१४१।। जम्बूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन्, तांश्च 10 स्तुतिद्वारेणाह- चंदाणणं गाहा । चन्द्राननं १ सुचन्द्रं च २ अग्निसेनं च ३ नन्दिषेणं च ४ । क्वचिदात्मसेनोऽयं दृश्यते । ऋषिदिन्नं च ५ व्रतधारिणं च ६ वन्दामहे श्यामचन्द्रं च ७ ॥१४२॥ ___वंदामि गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीघसेनो वोच्यते ८, अजितसेनं क्वचिदयं शतायुरुच्यते ९, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते सत्यकिश्चेति 15 १०, बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामकं ११, सततं सदा वन्दे इति प्रकृतम्, निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसम् १२ ।।१४३।। असंजलं गाहा, असंज्वलं जिनवृषभं पाठान्तरेण अस्वयंज्वलं १३, वन्दे अनन्तजितममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति १४, उपशान्तं १. रामणे जे१,२ हे१,२ ।। २. संध त्ति जे१ खमू० । 'संधु त्ति खंसं० ॥ ३ “एते खलु प्रतिशत्रवः, एते एव. खलुशब्दस्य अवधारणार्थत्वात्, नान्ये, कीर्तिपुरुषाणां वासुदेवानाम्, सर्वे चक्रयोधिनः, सर्वे च हता: स्वचक्रैरिति, यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति इति गाथार्थः ॥४३।। अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमः, नवरं प्राकतशैल्या पूर्वापरनिपातः अनिदानकता रामा: इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यम्, केशवास्तु कृतनिदाना इति गाथार्थः ॥४१५।।'' इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ ।। ४. सचक्केण । अणि जे२ ॥ ५. 'गामि त्ति जे१ ।। ६. सेत्स्यंतीति खं० ।। ७. नंदिसेणं जे२ हे२ ।। ८. 'सेनो दृश्यते जे२ ।। ९. च नास्ति जे१,२ हे१,२ ॥ १०. अनन्तजिनम जे२ हे१ । अनन्तकं तं जिनम हे२ ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy