SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अधिकरण्यां धृत्वा अयोघनेनाऽऽस्फोट्यते न च भिद्यते तावेव च भित्तीति दुर्भेदं तदिति, अथवा महती या आरचना सागर - शकटव्यूहादिना प्रकारेण सिसङ्ग्रामयिषोर्महासैन्यस्य तां रणरङ्गरसिकतया महाबलतया च विघटयन्ति वियोजयन्ति ये ते महारचनाविघटकाः, पाठान्तरेण तु महारणविघटकाः, 5 अर्द्धभरतस्वामिनः, सौम्या नीरुजा राजकुलवंशतिलका: अजिता: अजितरथाः, हलमुशल-कणकपाणयः, तत्र हल - मुशले प्रतीते, ते प्रहरणतया पाणौ हस्ते येषां ते बलदेवाः, येषां तु कणका बाणा: पाणौ ते शार्ङ्गधन्वानो वासुदेवाः, शंखश्च पञ्चजन्याभिधानः चक्रं च सुदर्शननामकं गदा च कौमोदकीसंज्ञा लकुटविशेषः शक्तिश्च त्रिशूलविशेषो नन्दकश्च नन्दकाभिधानः खड्गः, तान् धारयन्तीति शंख-चक्र-गदा10 शक्ति-नन्दकधराः वासुदेवाः, प्रवरो वरप्रभावयोगादुज्ज्वलः शुक्लत्वात् स्वच्छतया वा, सुकान्तः कान्तियोगात्, पाठान्तरे सुकृतः सुपरिकर्म्मितत्वात्, विमलो मलवर्जितत्वात्, गोत्थुभ त्ति कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडं ति किरीटं च मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतिताननाः, पुण्डरीकवन्नयने येषां ते तथा, एकावली आभरणविशेषः सा कण्ठे ग्रीवायां लगिता विलम्बिता सती वक्षसि 15 उरसि वर्त्तते येषां ते एकावलीकण्ठलगितवक्षसः, श्रीवृक्षाभिधानं सुष्ठु लाञ्छनं महापुरुषत्वसूचकं वक्षसि येषां ते श्रीवृक्षलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात्, सर्वर्तुकानि सर्वऋतुसंभवानि सुरभीणि सुगन्धीनि यानि कुसुमानि तैः सुरचिता कृता या प्रलम्बा आप्रपदीना सोभंत त्ति शोभमाना कान्ता कमनीया विकसन्ती फुल्लन्ती चित्रा पञ्चवर्णा वरा प्रधाना माला स्रक् रचिता निहिता रतिदा वा सुखकारिका 20 वक्षसि येषां ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसच्चित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि चक्रादीनि तैः प्रशस्तानि मङ्गल्यानि सुन्दराणि च मनोहराणि विरचितानि विहितानि अंगमंग त्ति अङ्गोपाङ्गानि शिरोऽङ्गुल्यादीनि येषां ते अष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः, तथा मत्तगजवरेन्द्रस्य यो १. तावेव अधिकरण्ययोघनावेव इत्यर्थः ॥ ३०४ 9
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy