________________
३०२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषां विशेषणार्थमाह- तद्यथेत्यादि, तद्यथेति बलदेव-वासुदेवस्वरूपोपन्यासारम्भार्थः, केचित्तु दशारमंडणा इति पठन्ति, तत्र दशाराणां वासुदेवकुलीनप्रजानां मण्डना: शोभाकारिणो दशारमण्डना:, उत्तमपुरुषा इति तीर्थकरादीनां चतुष्पञ्चाशत उत्तमपुरुषाणां मध्यवर्त्तित्वात्, मध्यमपुरुषा: तीर्थकर5 चक्रिणां प्रतिवासुदेवानां च बलाद्यपेक्षया मध्यवर्त्तित्वात्, प्रधानपुरुषास्तात्कालिकपुरुषाणां शौर्यादिभिः प्रधानत्वात्, ओजस्विनो मानसबलोपेतत्वात्, तेजस्विनो दीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विन: पराक्रमं प्राप्य प्रसिद्धिप्राप्तत्वात्, छायंसि त्ति प्राकृतत्वात् छायावन्तः शोभमानशरीराः, अत एव
कान्ता: कान्तियोगात्, सौम्या अरौद्राकारत्वात्, सुभगा जनवल्लभत्वात्, प्रियदर्शना: 10 चक्षुष्यरूपत्वात्, सुरूपा: समचतुरस्रसंस्थानत्वात्, शुभं सुखं वा सुखकरत्वाच्छीलं स्वभावो येषां ते शुभशीला: सुखशीला वा, सुखेनाभिगम्यन्ते सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः, सर्वजननयनानां कान्ता अभिलाष्या ये ते तथा, तत: पदत्रयस्य कर्मधारयः, ओघबला: प्रवाहबलाः अव्यवच्छिन्नबलत्वात्,
अतिबला: शेषपुरुषबलानामतिक्रमात्, महाबला: प्रशस्तबलाः, अनिहता निरुप15 क्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात्, अपराजितास्तैरेव शत्रूणां पराजितत्वात्,
एतदेवाह- शत्रुमर्दनास्तच्छरीर-तत्सैन्यकदर्थनाद्, रिपुसहस्रमानमथनास्तद्राञ्छितकार्यविघटनात्, सानुक्रोशाः प्रणतेष्वद्रोहकत्वात्, अमत्सरा: परगुणलवस्यापि ग्राहकत्वात्, अचपला मनोवाक्कायस्थैर्यात्, अचण्डा निष्कारणप्रबलकोपरहितत्वात्, मिते परिमिते मञ्जुनी कोमले प्रलापश्च आलापो हसितं च येषां ते मितम प्रलाप20 हसिताः, गम्भीरम् अदर्शितरोष-तोष-शोकादिविकारं मेघनादवद्वा, मधुरं श्रवणसुखकरं
प्रतिपूर्णम् अर्थप्रतीतिजनकं सत्यम् अवितथं वचनं वाक्यं येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, अभ्युपगतवत्सलाः तत्समर्थनशीलत्वात्, शरण्यास्त्राणकरणे साधुत्वात्, लक्षणानि मानादीनि वज्र-स्वस्तिक-चक्रादीनि वा व्यञ्जनानि तिलक१. 'वादीनां हे२ ।। २. युद्धे बाहुभ्यामपाति अपरा जे२ ॥