________________
२९३
[सू० १५७]
तीर्थकरमातृ-भिक्षा-चैत्यवृक्षादिनिरूपणम् । भयवं पि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो । उग्गाणं भोगाणं राइण्णाणं च खत्तियाणं च ।
चउहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥ [आव० नि० २२४-२२५] तथा- सुमइऽत्थ निच्चभत्तेण निग्गओ वासुपुज्जो जिणो चउत्थेणं ।
पासो मल्ली विय अट्टमेण सेसा उ छट्टेणं ॥ [आव० नि० २२८] ति, सुमतिरत्र नित्यभक्तेन, अनुपोषितो निष्क्रान्त इत्यर्थः । तथा- संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण ।
सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ । [आव० नि० ३१९] त्ति, तथा- उसभस्स पढमभिक्खा खोयरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसि ॥ [आव० नि० ३२०]
10 सरीरमेत्तीओ त्ति पुरुषमात्राः ॥१०६।। चेइयरुक्ख त्ति बद्धपीठा वृक्षा येषामधः केवलान्युत्पन्नानीति । बत्तीसं धणुयाई गाहा, निच्चोउगो त्ति नित्यं सर्वदा ऋतुरेव पुष्पादिकालो यस्य स नित्यर्तुकः असोगो त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, ओच्छन्नो सालरुक्खेणं ति अवच्छन्नः शालवृक्षणेत्यत एव वचनादशोकस्योपरि शालवृक्षोऽपि 15 कथञ्चिदस्तीत्यवसीयत इति ॥११०।। तिण्णेव गाउयाई गाहा ऋषभस्वामिनो द्वादशगुण इत्यर्थः ।।१११।।
सवेइय त्ति वेदिकायुक्ताः, एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति ।।११२।। च क्षत्रियाणां च चतुर्भिः सहस्रः सह ऋषभः, किम् ? निष्क्रान्त इति वर्त्तते, शेषास्तु अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादितमेवेति गाथार्थः ॥२२४-२५॥" आव० हारि० ॥ १. “सुमति: तीर्थकरः, थेति निपातः, नित्यभक्तेन अनवरतभक्तेन निर्गतो निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, तथा पार्थो मल्ल्यपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेनेति गाथार्थः ।।२२८॥" आव० हारि० ।। २. संवत्सरेण भिक्षा लब्धाः ऋषभेण लोकनाथेन प्रथमतीर्थकृता, शेषैः अजितादिभिः भरतक्षेत्रतीर्थकद्भिः द्वितीयदिवसे लब्धाः प्रथमभिक्षा इति गाथार्थः ॥३१९।। ऋषभस्य त इक्षरसः प्रथमपारणके आसील्लोकनाथस्य, शेषाणाम् अजितादीनां परमं च तदन्नं च परमान्नं पायसलक्षणम्, किंविशिष्टमित्याह- अमृतरसवद रसोपमा यस्य तद् अमृतरसरसोपममासीदिति गाथार्थः ॥३२०॥” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ ।।