SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे - [३] निरयगती णं भंते ! केवतियं कालं विरहिता उववाएणं पण्णत्ता ? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहुत्ते, एवं तिरियगति मणुस्स[गति] देव[गति] । सिद्धिगती णं भंते ! केवइयं कालं विरहिया सिज्झणयाए पण्णत्ता ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं छम्मासे। 5 एवं सिद्धिवजा उव्वदृणा । [४] इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं ? एवं उववायदंडओ भाणियव्वो उव्वट्टणादंडओ य । __ [टी०] अनन्तरमाहारप्ररूपणा कृता, आहारश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह- कइविहेत्यादि, तत्रायुषो बन्ध: निषेक आयुर्बन्धः, निषेकश्च प्रतिसमय 10 बहहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः, अथ किमर्थं जात्यादिनामकर्मणाऽऽयुविशेष्यते ?, उच्यते- आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्माद् 15 व्याख्याप्रज्ञप्त्यामुक्तम्- नेरइए णं भंते ! नेरइएसु उववज्जइ, अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसु उववज्जइ, नो अनेरइए नेरइएसु उववज्जइ [भगवती० ४/९/१७३], एतदुक्तं भवति - नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति । ___ तथा गतिनामनिधत्ताउए त्ति, गति रकगत्यादिः, तल्लक्षणं नामकर्म तेन सह 20 निधत्तं निषिक्तमायुर्गतिनामनिधत्तायुः । तथा ठिइनामनिधत्ताउए त्ति, स्थितिर्यत् स्थातव्यं तेन भावनायुर्दलिकस्य सैव नाम परिणामो धर्म इत्यर्थः स्थितिनाम, गति-जात्यादिकर्मणां वा प्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम, तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति। तथा पएसनामनिधत्ताउए त्ति, प्रदेशानां प्रमितपरिमाणानामायुःकर्मदलिकानां नाम १. अत्र प्रज्ञापनासूत्रे षष्ठं व्युत्क्रान्तिपदं द्रष्टव्यम् ।। २. विशिष्यिते जे२ हे१, हेसं२ ।। ३. नाम: जे२ खं० हे२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy