________________
[सू० १५० ]
असुरकुमारावासादिवर्णनम् ।
?
सउज्जोय त्ति सहोद्द्योतेन वस्त्वन्तरप्रकाशनेन वर्त्तन्ते इति सोद्योतानि, पासाईय त्ति प्रासादीयानि मनःप्रसत्तिकराणि, दरिसणिज्ज त्ति दर्शनीयानि तानि हि पश्यश्चक्षुषा न श्रमं गच्छतीति भाव:, अभिरूव त्ति अभिरूपाणि कमनीयानि, पडिरूवत्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि, नैकस्य कस्यचिदेवेत्यर्थः ।
एवमित्यादि, यथा असुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति, तथा यद् 5 भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते घटते तत्तस्य वाच्यमिति किंविधं तत् परिमाणमत आह- जं जं गाहाहिं भणियं यद्यद् गाथाभिः चउसट्ठी असुराणमित्यादिकाभिरभिहितम्, किं परिमाणमेव तथा वाच्यम् ? नेत्याह- तह चेव वण्णओ त्ति यथा असुरकुमारे भवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि— केवइया णं भंते ! नागकुमारावासा पण्णत्ता ?, गोयमा ! इमीसे णं रयणप्पभाए 10 पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसयसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए [ पुढवीए] चुलसीई नागकुमारावाससयसहस्सा [पण्णत्ता ], ते णं भवणा इत्यादीति ← ।
२६५
केवइया णं भंते । पुढवीत्यादि गतार्थम्, नवरं मनुष्याणां गर्भव्युत्क्रान्तिकानाम् असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्च्छिमानां त्वसंख्येयत्वेन 15 प्रतिशरीरमावासभावादसंख्येया इति भावनीयमिति ।
केवइया णं भंते ! जोइसियाणं विमाणावासा इत्यादि। अब्भुग्गयमूसियपहसिय त्ति अभ्युद्गता सञ्जाता उत्सृता प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा दीप्तिस्तया सिता: शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा अनेकप्रकारा मणयः चन्द्रकान्ताद्या रत्नानि कर्केतनादीनि तेषां भक्तयो विच्छित्तिविशेषास्ताभिश्चित्रा: 20 चित्रवन्तः आश्चर्यवन्तो वेति विविधमणिरत्नभक्तिचित्राः, तथा वातोद्भूता वायुकम्पिता विजयः अभ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना या वैजयन्त्यस्ताश्च तद्वर्जिताः पताकाश्च छत्रातिच्छत्राणि च उपर्युपरिस्थितातपत्राणि तैः कलिता युक्ता १. पासाइय जे२ हे१,२ ॥
त्ति । द्वीपकुमारादीनां तु षण्णां प्रत्येकं षट्सप्ततिर्वाच्येति ॥
→
2
एतच्चिह्नान्तर्गतपाठस्थाने हे२ मध्ये ईदृशः पाठः - भवतीति मक्खाय