SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे नेरइया १ असुराई १० पुढवाई ५ बिंदियादओ ४ मणुया १ । वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं ॥ [ ] । [सू० १४९] [२] इमीसे णं रयणप्पभाए पुढवीए केवइयं ओगाहेत्ता केवइया णिरया पण्णत्ता? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए 5 आसीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खाया । ते णं णरया अंतो वट्टा, बाहिं चउरंसा, जाव असुभा निरया असुभातो णरएसु वेयणातो । 10 [टी०] अथानन्तरप्रज्ञापितानां नारकादीनां पर्याप्ता-ऽपर्याप्तभेदानां स्थाननिरूपणायाह इमीसे णमित्यादि अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यम्, नवरं ते णं निरया इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते - किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते च वृत्त-त्र्यम्र-चतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषां च मध्ये इन्द्रकाः सीमन्तकादयो 15 भवन्ति, आवलिकाबाह्यास्तु पुष्पावकीर्णा दिविदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्र च बाहुल्यमङ्गीकृत्येदमभिधीयते - अंतो वट्टेत्यादि, उक्तं च सूत्रकृवृत्तिकृता- नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्याऽन्त: मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरुप्रसंस्थानसंस्थिताः, एतच्च संस्थान पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्त-त्र्यम्र-चतुरस्रसंस्थाना 20 भवन्ती[सूत्रकृताङ्गवृ० ति, तत्रान्तर्वृत्ता मध्ये शुषिरमाश्रित्य, बहिश्चतुरस्रा कुड्यपरिधिमाश्रित्य, यावत्करणादिदं दृश्यं यदुत– अधः क्षुरुप्रसंस्थानसंस्थिता: - १. “इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका किंसंठिया पण्णत्ता ? गोयमा ! दुबिहा पन्नत्ता, तंजहाआवलियपविठ्ठा य आवलियबाहिरा य । तत्थ णं जे ते आवलियपविट्टा ते तिविहा पन्नत्ता, तंजहा- वट्टा तंसा चउरंसा । तत्थ णं जे ते आवलियबाहिरा ते नानासंठाणसंठिता पन्नत्ता।" इति जीवाभिगमसूत्रे तृतीयायां प्रतिपत्तौ द्वितीये उद्देशके । अस्य सूत्रस्य चूर्णिरत्राभिप्रेता प्रतीयते । सम्प्रति जीवाभिगमचूर्णिर्मोपलभ्यते ॥ २. अत्र प्रज्ञापनासूत्रस्य द्वितीये स्थानपदे १७४ तमं सूत्र द्रष्टव्यम् ।। ३. दृश्यतां सूत्रकृताङ्गस्य द्वितीये श्रुतस्कन्धे द्वितीयस्य अध्ययनस्य शीलाचार्यविरचितायां वृत्तौ ।। ४. क्षरप्र' हे२ ।। ५. क्षुरप्र' जे१ हे२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy