________________
आचार्यश्रीअभयदेवरिविरचितटीकासहिते समवायाङ्गसूत्र त्युदाहरणोपदर्शने, आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि। तत्थ णं ति तत्र द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थः आत्मादिः अभिधेयो ‘भवतीति गम्यते, तद्यथेति वाचनान्तरद्वितीय
सम्बन्धसूत्रव्याख्येति । 5 [सू०१] [३] एके आता १, एके अणाया २। एगे दंडे ३, एगे अदंडे ४/
एगा किरिया ५, एगा अकिरिया ६। एगे लोए ७, एगे अलोए ८।
एगे धम्मे ९, एगे अधम्मे १०। एगे पुण्णे ११, एगे पावे १२। एगे बंधे १३, एगे मोक्खे १४।।
एगे आसवे १५, एगे संवरे १६। एगा वेयणा १७, एगा णिज्जरा १८। 10 [टी०] इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः,
तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बद्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् एगे आया इत्यादिभिरष्टादशभिः सूत्रैराह । स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि
किञ्चिदच्यते- एक आत्मा, कथञ्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयम् । तत्र 15 प्रदेशार्थतया असङ्ख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षण
पूर्वस्वभावक्षया-ऽपरस्वरूपोत्पादयोगेनाऽनन्तभेदोऽपि कालत्रयानुगामिचैतन्यमात्रापेक्षया एक आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनाऽनन्तत्वेऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपापेक्षयैकत्वमात्मन इति । तथा न आत्मा अनात्मा घटादिपदार्थः,
सोऽपि प्रदेशार्थतया सङ्ख्येया-ऽसङ्ख्येया-ऽनन्तप्रदेशोऽपि तथाविधैकपरिणामरूप20 द्रव्यार्थापेक्षया एक एव, एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैकस्वभावयुक्तत्वात् कथञ्चिद्भिन्नस्वरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्वमवसेयमिति ।
तथा एको दण्डो दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्रं वा, एकत्वं चास्य सामान्यनयादेशाद्, एवं सर्वत्रैकत्वमवसेयम् । तथैकोऽदण्डः प्रशस्तयोगत्रयमहिंसामात्र वा। १. एव नास्ति खं० जे१ ।।