________________
२३४
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
१
चित्तावत्थाणमेगवत्थुम्मि [ ध्यानश० ३] इत्यादि, आख्यायन्त इति सर्वत्र योग:, तथा प्राप्तानां च संयमोत्तमं सर्वविरतिं जितपरीषहाणां चतुर्विधकर्म्मक्षये घातिक्षये सति यथा केवलस्य ज्ञानादेर्लाभः पर्यायः प्रव्रज्यालक्षणो यावांश्च यावद्वर्षादिप्रमाण यथा येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोपगतश्च 5 पादपोपगमाभिधानमनशनं प्रतिपन्नो यो मुनिर्यत्र शत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि भोजनानि छेदयित्वा, अनशनिनां हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः, तमोरजओघविप्रमुक्तः, एवं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः ।
एते अन्ये चेत्यादि प्राग्वत् । नवरं दस अज्झयण त्ति प्रथमवर्गापेक्षयैव घटते, 10 नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते सत्त वग्ग त्ति तत् प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात्, तद्वृत्तिश्चेयम्– अट्ठ वग्ग त्ति अत्र वर्गः समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, अतो भणितम् ‘अट्ठ उद्देसणकाला' इत्यादि [ नन्दी० हारि० ], इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्रायमवगच्छामः । तथा संख्यातानि पदशतसहस्राणि पदाग्रेणेति, 15 तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति ॥८॥
[सू० १४४] से किं तं अणुत्तरोववातियदसातो ? अणुत्तरोववातियदसासु णं अणुत्तरोववातियाणं णगराई, उज्जाणाई, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मकहातो, इहलोइया पारलोइया
१. “अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।।३।। व्या०इह मुहूर्त्तः सप्तसप्ततिलवप्रमाण: कालविशेषो भण्यते । अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्त्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थ:, ततश्च भिन्नमुहूर्तमेव कालम् किम् ? चित्तावस्थानमिति चित्तस्य मनसः अवस्थानं चित्तावस्थानम्, अवस्थिति: अवस्थानम्, निष्प्रकम्पतया वृत्तिरित्यर्थः क्व ? एकवस्तुनि, एकम् अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु चेतनादि, एकं च तद्वस्तु एकवस्तु, तस्मिन् २ छद्मस्थानां ध्यानमिति, तत्र छादयतीति छद्म पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानाम्, ध्यानं प्राग्वत् || ३ ||" इति ध्यानशतके हारिभद्र्यां वृत्तौ ॥ २. " से किं तं अंतगडदसाओ..." [सू० ९२] इति नन्दीसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तावेतदस्ति । नन्दीसूत्रस्य जिनदासगणिमहत्तरविरचितायां चूर्णावपि स्तोकं वर्णनमुपलभ्यते ॥