SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयसताई, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयउवक्खाइयसताइं, एवामेव सपुव्वावरेणं अद्भुट्ठातो अक्खाइयकोडीओ भवंतीति मक्खायाओ । एगूणतीसं उद्देसणकाला, एगूणतीसं समुद्देसणकाला, संखेजाइं पयसतसहस्साइं पयग्गेणं पण्णत्ते । 5 संखेजा अक्खरा जाव चरणकरणपरूवणया आघविजति । सेत्तं णायाधम्मकहातो । [टी०] से किं तमित्यादि, अथ कास्ता ज्ञाताधर्मकथा: ? ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा:, दीर्घत्वं संज्ञात्वाद्, अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च 10 ज्ञाताधर्मकथाः, तत्र प्रथमव्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह– नायाधम्मकहासु णमित्यादि, ज्ञातानाम् उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशति: पदानि कण्ठ्यानि च, नवरमुद्यानं पत्र-पुष्प-फल-च्छायोपगवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहुजनो यत्र भोजनार्थं यातीति, चैत्यं व्यन्तरायतनम्, वनखण्डोऽनेकजातीयैरुत्तमैर्वृक्षरुपशोभित इति । आघविजंति, इह यावत्करणादन्यानि 15 पञ्च पदानि दृश्यानि यावदयं सूत्रावयवो यथा नायाधम्मेत्यादि, तत्र ज्ञाताधर्मकथासु णमित्यलकारे, प्रव्रजितानाम्, क्व ? विनयकरणजिनस्वामिशासनवरे कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचने इत्यर्थः, पाठान्तरेण समणाणं विणयकरणजिणसासणम्मि पवरे, किंभूतानाम् ? संयमप्रतिज्ञा संयमाभ्युपगमः सैव दुरधिगमत्वात् कातरनरक्षोभकत्वाद् गम्भीरत्वाच्च पातालमिव पातालम्, तत्र, 20 धृतिमतिव्यवसाया दुर्लभा येषां ते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा, तेषाम्, तत्र धृतिः चित्तस्वास्थ्यम्, मति: बुद्धिः, व्यवसाय: अनुष्ठानोत्साह इति, तथा तपसि नियम: अवश्यं करणं तपोनियमो नियन्त्रित(तं) तपः, स च तपउपधानं चानियन्त्रितं तप एव श्रुतोपचारतपो वा तपोनियमतपउपधाने ते एव रणश्च कातरनरक्षोभकत्वात् सङ्ग्रामो दुद्धरभर त्ति १. गम्यत्वात् हे२ विना ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy