________________
[सू० १४०] व्याख्याप्रज्ञप्ति [ =भगवतीसूत्र]वर्णनम् ।
२२३ अज्झयणसते, दस उद्देसगसहस्साइं, दस समुद्देसगसहस्साइं, छत्तीसं वागरणसहस्साइं, चउरासीति पयसहस्साइं पयग्गेणं पण्णत्ते । संखेजाई अक्खराई, अणंता गमा जाव सासया कडा णिबद्धा [णिकाइया जिणपण्णत्ता भावा आघविजंति जाव एवं चरणकरणपरूवणया आघविज्जति । सेत्तं वियाहे ।
[टी०] से किं तं वियाहे इत्यादि, अथ केयं व्याख्या ?, व्याख्यायन्ते अर्था यस्यां सा व्याख्या, वियाहे इति च पुल्लिँङ्गनिर्देशः प्राकृतत्वात्, वियाहेणं ति व्याख्यया व्याख्यायां वा ससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि । वियाहेणमित्यादि, नानाविधैः सुरैः नरेन्द्रैः राजऋषिभिश्च विविहसंसइय त्ति विविधसंशयितैः विविधसंशयवद्भिः पृष्टानि यानि तानि तथा, तेषां 10 नानाविधसुरनरेन्द्रराजऋषिविविधसंशयितपृष्टानां व्याकरणानां षट्त्रिंशतः सहस्राणां दर्शनात् श्रुतार्था व्याख्यायन्त इति पूर्वापरेण वाक्यसंबन्धः, पुनः किंभूतानां व्याकरणानाम् ? जिनेनेति भगवता महावीरेण वित्थरेण भासियाणं विस्तरेण भणितानामित्यर्थः, पुनः किंभूतानाम् ? दव्वेत्यादि, द्रव्य-गुण-क्षेत्र-काल-पर्यवप्रदेश-परिणामानां यथास्तिभावोऽनुगम-निक्षेप-नय-प्रमाण-सुनिपुणोप- 15 क्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैर्व्याकरणैस्तानि तथा, तेषाम्, तत्र द्रव्याणि धर्मास्तिकायादीनि, गुणा ज्ञान-वर्णादयः, क्षेत्रम् आकाशम्, काल: समयादिः, पर्यवाः स्व-परभेदभिन्ना धर्माः, अथवा कालकृता अवस्था नव-पुराणादयः पर्यवाः, प्रदेशा निरंशावयवाः, परिणामा: अवस्थातोऽवस्थान्तरगमनानि, यथा येन प्रकारेणाऽस्तिभावः अस्तित्वं सत्ता यथाऽस्तिभावः, अनुगम: 20 संहितादिव्याख्यानप्रकाररूपः उद्देश-निर्देश-निर्गमादिद्वारकलापात्मको वा, निक्षेपो नामस्थापना-द्रव्य-भावैर्वस्तुनो न्यासः, नयप्रमाणम्, नया नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञाननय-क्रियानयभेदान्निश्चय-व्यवहारभेदाद्वा द्वौ, ते एव तावेव वा प्रमाणं वस्तुतत्त्वपरिच्छेदनं नयप्रमाणम्, तथा सुनिपुणः सुसूक्ष्मः सुनिगुणो वा सुष्ठ निश्चितगुण उपक्रम: आनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, 25