________________
१९० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे त्रिनवति-चतुर्नवतिस्थानके । द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तुभपर्वत इति सूत्रोक्तमन्तरं भवतीति, एवं शेषाणामपि ॥९२॥ [सू० ९३] चंदप्पभस्स णं अरहतो तेणउतिं गणा तेणउतिं गणहरा होत्था।
संतिस्स णं अरहतो तेणउई चोद्दसपुव्विसया होत्था । 5 तेणउतिमंडलगते णं सूरिए अतिवट्टमाणे वा नियट्टमाणे वा समं अहोरत्तं विसमं करेति ।
[टी०] अथ त्रिनवतिस्थानके किमपि वितन्यते, तेणउइंमंडलेत्यादि, तत्र अतिवर्त्तमानो वा सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्तमानो वा सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यस्यार्थ:10 अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्त्ता उभयोरपि
भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिके मण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेते च, यदा च दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति, तत्र द्विनवतितमे मण्डले
प्रतिमण्डलं मुहर्तेकषष्टिभागद्वयवृद्ध्या त्रयो मुहर्ता एकेनैकषष्टिभागेनाधिका वर्द्धन्ते 15 हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्ता
उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्ति, अतो द्विनवतितममण्डलस्यार्द्ध समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितमं मण्डलं चादित आरभ्य त्रिनवतितममिति यथोक्तः सूत्रार्थ इति ॥९३।।
[सू० ९४] निसह-नेलवंतियाओ णं जीवातो चउणउई चउणउई 20 जोयणसहस्साई एकं छप्पण्णं जोयणसतं दोण्णि य एकूणवीसतिभागे जोयणस्स आयामेणं पण्णत्तातो] ।
अजितस्स णं अरहतो चउणउतिं ओहिनाणिसया होत्था । [टी०] अथ चतुर्नवतिस्थानके किञ्चिद्विवेच्यते, निसहेत्यादि, इह पादोना १. पंचदश मुहूर्ता जे१ खं० ॥