________________
॥ अर्हम् ।। नवाङ्गीटीकाकारश्रीमदभयदेवसूरिविरचितटीकाविभूषितं पञ्चमगणधरदेवश्री सुधर्मस्वामिपरम्पराऽऽयातं
श्री समवायाङ्गसूत्रम् । सूत्रम् १] [१] सुयं मे आउसं ! तेणं भगवता एवमक्खातं[टीका] श्रीवर्द्धमानमानम्य समवायाङ्गवृत्तिका ।
विधीयतेऽन्यशास्त्राणां प्रायः समुपजीवनात् ।।१।। दु:सम्प्रदायादसदहनाद्वा भणिष्यते यद् वितथं मयेह ।
तद् धीधनैर्मामनुकम्पयद्भिः शोध्यं मतार्थक्षतिरस्तु मैवम् ।।२।। इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो 10 भवतीति सोऽधुना समारभ्यते । तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवदवसेया, नवरं समुदायार्थोऽयमस्य– समिति सम्यक् अवेत्याधिक्येन अयनम् अय: परिच्छेदो १. श्री महावीर जैन विद्यालयेन विक्रमसंवत् २०४१ (ईशवीयसन १९८५] वर्षे प्रकाशिते जैनागमग्रन्थमालायाः तृतीय ग्रन्थाङके प्राचीनान् हस्तलिखितादर्शानवलम्ब्य अस्माभिः संशोधितं सम्पादितं च यत् समवायाङ्गसूत्रं वर्तते प्रायः तदेवात्र मुद्रितम् । ये तु तत्र पाठभेदाः ते जिज्ञासुभिः तत्रैव विलोकनीयाः ।। २. अत्रेदमवधेयम्- अस्याः समवायागवृत्त: संशोधनं ज१.२, खं० इति प्राचीनास्तालपत्रापरिलिखितानादर्शानवलम्ब्य विहितम् । जे१ = जेसलमेरुदर्गस्थ खरतरगच्छीयाचार्यश्री जिनभद्रसूरिभिः विक्रमसंवत् १४०१ वर्षे संस्थापिते तालपत्रीयजैनग्रन्थभाण्डागारे विद्यमान आदर्श:, New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION अनुसारेण अस्य ८ अष्टम: क्रमाङ्कः, अत्र १-४५ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तते, पञ्चदशं पत्रमत्र नास्ति, ४६-१३४ पत्रेषु समवायाङ्गवृत्तिर्वर्तते, “समवायाङ्गवृत्तिः सम्पूर्णा ।। संवत् १४८७ वर्षे पोस सुदि १० रवौ” इति अस्यान्ते उल्लेखः ।। जे२ = अयमपि जेसलमेरुदर्गस्थ एवादर्शः, अस्य ९ नवमः क्रमाङ्कः, अत्र १-६४ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तत, चतुर्विंशतितमं पत्रमत्र नास्ति, ६५-२१५ पत्रेषु समवायाङ्गवृत्तिर्वर्तते, "संवत् १४०१ वर्षे माघ-शुक्ल एकादश्यां श्री समवायाङ्गसूत्रवृत्तिपुस्तकं सा. रउलासुश्रावकेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालङ्कार श्रीजिनचन्द्रसूरिसुगुरोः प्रादायि । आचन्द्रार्क नन्दतात्' इति अस्यान्ते उल्लेखः । खं० = खम्भातनगरे श्री शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमान आदर्श: Catalogue of Palm-leaf Manuscripts in the Santinatha Jain Bhandara, Cambay अनुसारेण अस्य क्रमाङ्कः ३७, अत्र १-९७ पत्रेषु मूलमात्र समवायाङ्गसूत्रं वर्तते, ३४, ३५. ६७ तमानि पत्राणि न सन्ति, ९८-३३० पत्रेषु समवायाङ्गवृत्तिवर्तते, १८३, २७३ त: २७८. ३१८. ३२० तः ३२२ पत्राणि न सन्ति. "संवत् १३४९ वर्षे माघ सुदि १३ अद्येह दयावट श्रे० होना श्रे० कमरसीह थे० सोमप्रभृतिसंघसमवायसमारब्धपुस्तकभाण्डागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तक लिखितम् इत्येवमस्यान्ते उल्लेखः । अत्रोपयुक्ताना हे१,२ इति कागजपत्रोपरिलिखितानामादर्शानां तु स्वरूपमस्य ग्रन्थस्य प्रान्ते टिप्पण विलोकनीयम् ।। ३. स्था० टी० पृ०२।।