________________
१६२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र अबाह त्ति किमुक्तं भवति ? बन्धावलिकाया आरभ्य यावत् सप्तवर्षसहस्राणि तावत् तत् कर्म न बाधते. नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तम् उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्मदलिकस्यानुभवनार्थं रचना, तच्च प्रथमसमये बहकं निषिञ्चति 5 द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थिति कर्मदलिक तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्
मोत्तूण सगमबाहं पढमाए ठिइए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं ।। [कर्मप्र० ८३] ति ।
बाध लोडने [पा०धा० ५], बाधत इति बाधा कर्मण उदय इत्यर्थः, न बाधा अबाधा, 10 अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषेको
भवतीत्यवमेके प्राहुः, अन्ये पुनराहुः- अबाधाकालेन वर्षसहस्रसप्तकलक्षणेनोना कर्मस्थिति: सप्तसहस्राधिकसप्ततिसागरोपमकोटीकोटीलक्षणा, कर्मनिषेको भवति. स च कियान्? उच्यते- सत्तरं सागरोवमकोडाकोडीओ त्ति ।।७०।।
[सू० ७१] चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइंदिएहिं 15 वीतिक्वंतेहिं सव्वबाहिरातो मंडलातो सरिए आउटिं करेति ।
वीरियपुव्वस्स णं पुव्वस्स एक्कसत्तरं पाहुडा पण्णत्ता ।
अजिते णं अरहा एक्कसत्तरं पुव्वसतसहस्साई अगारमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते ।
एवं सगरे वि राया चाउरंतचक्कवट्टी एक्कसत्तरं पुव्व जाव पव्वतिते । 20 [टी०] अथैकसप्ततिस्थानके लिख्यते किञ्चित्, चउत्थस्सेत्यादि, इह
भावार्थोऽयम्- युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनानां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्र-चन्द्रा-ऽभिवर्द्धितलक्षणे संवत्सरत्रये 25 दिनानां सहस्रं द्विनवतिः षट् च द्विषष्टिभागा भवन्ति १०९२ ६, तथा