________________
402
उत्तराध्ययन
मूलम् - कंदष्पकुक्कुआई, तह सीलसहावहा सविगहाहिं । विम्हायंतो अ परं, कंदष्पं भावणं कुणइ ॥ २६९॥
व्याख्या
ख्या- कन्दर्पौक्रुष्ये कुर्वन्निति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च- " कहकहकहस्स हसणं, कंदप्पो अणिहुआ य आलावा । कंदष्पकहाकहणं, कंदप्पुवएससंसा य ॥ १ ॥ " कौव्यं द्विधा - कायेन वाचा च, तत्र कायकौकुच्यं यत्त्वयमहसन्नेव भ्रूनयनादिविकारांस्तथा करोति यथाम्यो हसति यदुक्तं - “ भूनयणवयणदसण छएहिं करचरणक
माईहिं । तं से करेह जह जह, हसह परो अत्तणा अहसं ॥ १ ॥ " तथा तज्जल्पति येनान्यो हसति नानाविजीवतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कौकुत्र्यं, यदाह - "वायाए कुक्कुइओ, तं जंपइ जेण ह्रस्सए अन्नो । नाणाविहजीवरुए, कुवइ मुहतूरए चेव ॥ १ ॥ " 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुख विकाराधिकं स्वरूपं, हासच अट्टट्टहासादिः, विकथाश्च परविस्मापक विविधालापकलापरूपाः शीलस्वभावहास्य विकथास्ताभिः विस्मापयन् परमन्यं । 'कंदष्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप तां भावनां तद्भावाभ्यासरूपां करोति ॥ मूलम् - मंता जोगं काउं, भूई कम्मं च जे पउंजंति । सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ॥ २६२ ॥
व्याख्या – 'मंताजोगंति' सूत्रत्वान्मंत्राश्च योगाश्च तथाविधद्रव्यसंयोगा मंत्रयोगं तत्कृत्वा भूला भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयुले सातरसर्द्धिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्वने निःस्पृहस्यैतत्कुर्वतोऽपि न दोषः किन्तु जिनशासनप्रभानालक्षणो गुण एवेति सूचितम् । स आभियोगीं भावनां करोति ॥ २६२ ॥
मूलम् - नाणस्स केवलीणं, धम्मायरिअस्स संघसाहूणं । माई अण्णवाई, किविसिअं भावणं कुणइ ॥ २६३ ॥
व्याख्या - ज्ञानस्य श्रुतादेरवर्णवादी यथा - "काया वया य तेविअ, ते चेन पमायमप्पमाया य । मोक्खाहि गारिआणं, जोइसजोणीहिं किं कजं ॥ १ ॥ " अत्र श्रुते स एव कायाः तान्येव च प्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च ततः पुनरुक्तिदोषाप्रातमिदम् । किञ्च श्रुतं मोक्षार्थं पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्यादिभिः किं कार्य ? यदत्र तानि प्ररूयन्त इति । केवलिनां यथा - ज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते १ इत्यादि । धर्माचार्यस्य यथा - " जचाईहिं अवण्णं, भासह बट्टा नयावि उबवाए । अहिओ छिप्पेही, पग्गासवाई अणणुकूलो ॥१॥" 'जचाहिंति' जात्यादिभिरवर्ण भाषते, वर्तते न चाप्युपपाते समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाशं प्रकटं वदतीति प्रकाशवादी । सङ्घस्य यथा - बहवः श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः १ इत्यादि । साधूनां यथा - "अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुणंषि । खणमेत्तपीइरोसा, गिहिवच्छ लगा य संचइआ ॥ १ ॥ " अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्त्तिनः गुरुभ्योऽपि पृथक् बिहारित्वात्, क्षणमात्रप्रीतिरोषाः, अयं भावः - मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोपं न क्षमन्ते ततो दोपान्वेपी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा हिवत्सलका विरक्ता अपि गृहिणां धर्म प्रतिपादयन्तीति, सञ्चयिकाश्चोपधिधारित्वात् इत्थं ज्ञानादीनामवर्णवादी । तथा मायी खखभावनिगूहनादिमान्, आह च - "गूहह आयसहावं, घायह अ गुणे परस्स संते वि । चोरोव सबसंकी, गूढायारो वितहभासी ॥ १ ॥ " ईदृशः किल्विपिकीं भावनां करोति ॥ २६३ ॥ इदानीं विचित्रत्वात्सूत्रकृतेर्मोही प्रस्तावेऽप्यासुरीहेतूनाह
मूलम् - अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एहिं कारणेहिं, आसुरिअं भावणं कुणइ
व्याख्या - अनुबद्धोऽन्यवच्छिन्नो रोपप्रसरो यस्य स तथा, तत्खरूपं चैवं - "निथं बुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेण्डंपि ॥ १ ॥ " अत्र 'दुवण्हंपित्ति' द्वयोः खपरयोरपरा