________________
उत्तराध्ययन
335
मूलम् -- पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायच्छित्त करणेणं पावकम्मविसोहिं जणयइ, निरइआरे आविभवइ, सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ॥ १६ ॥ १८ ॥
व्याख्या -- प्रायश्चित्तकरणेनालो चनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्रापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात् मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोर्हि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानं प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव। तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमा। धयति ॥ १६ ॥ १८ ॥ प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाहमूलम् - खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हाभावमुवगए अ जीवे सवपाण- भूअ - जीव-सत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए आवि जीवे भावविसोहिं काऊण निब्भए भवइ ॥ १७ ॥ १९ ॥
व्याख्या -क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रहादनभावं चित्तप्रसादं जनयति, प्रह्लादनमावमुपगतश्च जीवः सर्वे प्राणा द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्वाश्च शेषजीवास्तेषु मैत्रीभावं परहित चिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ॥ १७ ॥ १८ ॥ एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह-
मूलम् - सज्झाएणं भंते! जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ २० ॥
व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च- "कम्ममसंखिजभत्रं, खवेद अणुसमयमेव उवउत्तो ॥ अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं” ॥ १८ ॥ २० ॥ तत्रादौ वाचना कार्येति तामाह-
मूलम् - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयह, सुअस्स अणासायणाए वहति, सुअस्स आणलायणाए वहमाणे तित्थधम्मं अवलंबइ, तित्थधम्मं अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ॥ १९ ॥ २१ ॥
व्याख्या - वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसज्जणाए वहति” तत्र श्रुतस्यानुपअने अनुवर्त्तने वर्त्तते, कोऽर्थः १ श्रुतस्याव्यवच्छेदं करोति ] ततः श्रुतस्यानाशा तनायामनुपअने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते तं चावलम्बमान आश्रयन् महानिर्जरस्तथा महत्प्रशस्यं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्षावाप्तेर्भवति ॥ १९ ॥ २१ ॥ कृतवाचनः संशये पुनः पृच्छतीति
प्रच्छनामाह
मूलम् - पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिजं कम्मं वोच्छिन्दइ ॥ २० ॥ २२ ॥
व्याख्या -- पूर्वकथितसूत्रादेः पुनः प्रच्छने प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिध्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥ २२ ॥ इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह -
मूलम् — परिअट्टणयाएणं भंते ! जीवे किं जणयइ ?
परिअट्टणयाएणं वंजणाई जणयइ, वंजणलद्धिं च उप्पाएइ ॥ २१ ॥ २३ ॥ व्याख्या - परावर्त्तनया गुणनेन व्यञ्जनान्यक्षराणि जनयति, तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमवशाद्वयअनलब्धिं च शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ॥ २१ ॥ २३ ॥ सूत्रवदर्थस्याप्यविस्मरणाद्यर्थमनुप्रेक्षा कार्येति तामाह-