________________
५१-६२ ]
चन्द्रमित्रकृतं सप्रतिकाप्रकरणम् ।
२८१
सम्प्रति किं सर्वा अपि प्रकृतयः सर्वासु गतिषु प्राप्यन्ते ? किंवा न ? इति संशये सति तदपनोदार्थमाह
तित्थगर देवरियागं च निसु तिसु गईसु बोडवं । अवसेसा पयडोओ, हवंति सव्वासु वि गई || ६१||
तीर्थकर नामदेवायुर्नरकायुश्च प्रत्येकं तिसृषु तिसृषु गतिषु बोद्धव्यम् । तथाहि तीर्थकरनाम नरक देव मनुष्यगतिरूपासु तिसृषु गतिषु सत् प्राप्यते न तिर्यग्गतावपि, तीर्थकर सत्कर्मणस्तिर्यक्षुत्पादाभावात् ; तत्र गतस्य च तीर्थकरनामबन्धासम्भवात् तथाभवम्वाभान्यात् । तथा तिर्यङ्-मनुष्य-देवगतिंषु च देवायुः, न नरकगतौ नैरयिकाणां देवायुबन्धासम्भवात् । तिर्यङ् - मनुष्य- नरकगतिषु च नरकायुः, न देवगती देवानां नरकायुबन्धासम्भवात् । शेषाः प्रकृतयः सर्वास्वपि गतिषु सत्तामधिकृत्य प्राप्यन्ते । ६१ ॥
"
इह गुणस्थानकेषु प्राग्बन्ध उदय- सत्तास्थानसंवेध उवतः, गुणस्थानकानि च प्राय उपशमश्रेणिगतानि क्षपकश्रेणिगतानि च ततोऽवश्यमिहोपशम श्रेण-क्षपक श्रेणी वक्तव्ये, तत्र प्रथ मत उपशमश्रेणिप्रतिपादनार्थमाह
36
पढमकसायचउवर्क, दंसणतिग सत्तगा वि उवता । अविरतसम्मत्ताओ, जाव नियट्टि त्ति नागच्वा ||३२||
'प्रथमकषायाः' अनन्तानुबन्धिनः 'दर्शनत्रिक' मिथ्यात्व सम्यग्मिथ्यात्व सम्यक्त्वरूपम्, एताः 'सप्तका अपि सप्तापि प्रकृतय उपशान्ताः 'अविरतसम्यक्त्वात् ' अविरतसम्यग्दृष्टिगुणस्थानकादारभ्य यावद् 'निवृत्तिः' अपूर्वकरणगुणस्थानं तावद् ज्ञातव्याः । अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-ऽप्रमत्तसंयता- पूर्वकरणेषु यथायोगमेताः सप्तापि प्रकृतय उपशान्ता लभ्यन्ते । अपूर्वकरणवर्जाः शेषा यथायोगमुपशमकाः, अपूर्वकरणे त्वेता नियमत उपशान्ता एवं प्राप्यन्ते ।
तत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽभिधीयते-अविरतसम्यग्दृष्टि- देशविरत-विरतानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः-पद्म-शुक्ललेश्याऽन्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽन्तःसागरोपमःकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमपि अन्तर्मुहूर्तं कालं यावदवदायमानचित्तसन्ततिरवतिष्ठते । तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृतीः शुभा एवं बध्नाति, नाशुभाः । अशुभानां च प्रकृतीनामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, शुभानां च द्विस्थानकं
१ सं १ त० म० व्व लभ्यन्ते ॥