________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
ननु "बसंतीण विभज्जइ" इति वचनेन वध्यमानानामेवायं भागविधिरुक्तः, यदा च स्वस्वगुणस्थाने बन्धव्यवच्छेदः सम्पद्यते तदा तासां भागलभ्यं द्रव्यं कस्या भागतया भवति १ इति अत्रोच्यते - यस्याः प्रकृतेर्वन्धो व्यवच्छियते तद्भागलभ्यं द्रव्यं यावदेकाऽपि सजातीयप्रकृतिर्वध्यते तावत् तस्या एव तद् भवति । यदा पुनः सर्वासामपि सजातीयप्रकृतीनां बन्धो व्यवच्छिन्नो भवति न च मिथ्यात्वस्येवापरा सजातीया प्रकृतिरस्ति तदा तद्भागलभ्यं द्रव्यं समपि मूलप्रकृत्यन्तर्गतानां विजातीयप्रकृतीनामपि भवति । यदा ता अपि व्यवच्छिन्ना भवन्ति तदा तदलिकं सर्वमप्यन्यस्या सूलप्रकृतेः सम्पद्यते ।
१०६
निदर्शनं चात्र यथा - स्त्यानद्वित्रिकस्य बन्धव्यवच्छेदे तद्भागलभ्यं द्रव्यं सर्वमपि सजातीययोर्निद्रा-प्रचलयोर्भवति, तयोरपि बन्ध विच्छेदे सति स्वमूलप्रकृत्यन्तर्गतानां चक्षुर्दर्शनावरणादीनां विजातीयानामपि भवति, तेषामपि च बन्धे विच्छिन्ने उपशान्तमोहाद्यवस्थायां निःशेषं सातावेदनीयस्यैव भवति । मिथ्यात्वस्य तु बन्धविच्छेदे सति सजातीयाभावात् तद्भागलभ्यं दलिकं सर्व विजातीयानामेव क्रोधादीनामाद्यद्वादशकपायाणां भवतीत्यनया दिशा तावद् नेयं यावत् सूक्ष्मसम्पराय गुणस्थाने मोहनीयस्य भागलभ्यं द्रव्यं षड्भागतया भवति । तत ऊर्ध्वमुपशान्ताद्यवस्थायां सर्वथा शेषमूलप्रकृतीनां बन्ध विच्छेदे तद्भागलभ्यं द्रव्यं सर्वं सातवेदनीयस्यैव भागतया भवतीति ।
अत्रैव कर्मप्रकृतिटीकाकारोपदर्शितं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे चाल्पबहुत्वं विनेयजनानुग्रहाय प्रदर्श्यते तत्रोत्कृष्टपदे सर्वस्तोकं प्रदेशायं केवलज्ञानावरणस्य, ततो मनः पर्यवज्ञानावरणस्यानन्तगुणम्, ततोऽवधिज्ञानावरणस्य विशेषाधिकम्, ततः श्रुतज्ञानावरणस्य विशेषाधिकम्, ततो मतिज्ञानावरणस्य विशेषाधिकम् । तथा दर्शनावरणे उत्कृष्टपदे सर्व स्तोकं प्रचलायाः प्रदेशाग्रम्, ततो निद्राया विशेषाधिकम्, ततः प्रचलाप्रचलाया विशेषाधिकम्, ततो निद्रानिद्राया विशेषाधिकम्, ततः स्त्यानद्धेर्विशेषाधिकम्, ततः केवलदर्शनावरणस्य विशेषाधिकम् , ततोऽवधिदर्शनावरणस्या': 'नन्तगुणम्, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकम्, ततक्षुदर्शनावरणस्य विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसात वेदनीयस्य ततः सातवेदनीयस्य विशेषाधिकम् । तथा मोहनीये सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोsप्रत्याख्यानावरण क्रोधस्य विशेषाधिकं ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं, ततोsप्रत्याख्यानावरण लोभस्य विशेषाधिकं ततः प्रत्याख्यानावरणमानस्य विशेषाधिकं ततः
१ सं० १ ० छा० ०न्धव्यवच्छे० । २ सं० २ ०न्धव्यवच्छेदो || ३ यद्यपि कर्मप्रकृतिटीकायाम् 'स्यानन्तगुणं' एतादृश एव पाठः समस्ति' तथापि अस्मत्पार्श्वस्थेषु एतद्ग्रन्थस्य समेत्रप्यादर्शषु-- - स्य विशेषाधिकम्' इत्येवंरूपः पाठः समस्तीति ॥