________________
५६
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथाः
उताहो कुत्रचिदस्ति विशेषोऽपि ? इत्याह--" नवरं संखगुणो वियअमणपज्जे" त्ति 'नवरे' केवलमियान् विशेषः, सङ्ख्यातगुणो वाच्यः, पर्याप्तशब्दस्य प्रत्येकं सम्बन्धाद् द्वीन्द्रिये पर्याप्ते असंज्ञिनि पर्याप्ते, अन्यत्र सामर्थ्यात् सर्वत्र विशेषाधिक इति गाथाक्षरार्थः । भावार्थस्त्वयम् - बादरपर्याप्तैकेन्द्रियोत्कृष्टस्थितिबन्धाद् द्वीन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धः सङ्ख्ये यगुणः १० ततोऽपर्याप्तद्वीन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः ११ ततोऽपर्याप्तद्वीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः १२ ततः पर्याप्तद्वीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः १३ ततः पर्याप्तत्रीन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः १४ ततोऽपर्याप्तत्रीन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः १५ ततोऽपर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः १६ ततः पर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः १७ ततः पर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः १८ ततोऽपर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः १६ ततोऽपर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः २० ततः पर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः २१ ततः पर्याप्तासंज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धः सङ्ख्यागुणः २२ ततोऽपर्याप्त संज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः २३ ततोऽपर्याप्तासंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः २४ ततः पर्याप्तासंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः २५ ॥ ५० ॥
तो जइजिट्टो बंधो, संखगुणो देसविरय हस्सियरो
सम्मच सन्निचउरो, ठिहबंधाणुकम संखगुणा ।। ५१ ।।
ततो यतेः--संयतस्य ज्येष्ठो बन्धः सङ्ख्यातगुणः, ततो देशविरतस्य ' ह्रस्वः' जघन्यः 'इतर: ' उत्कृष्टः, ततः ‘"सम्मच उ" ति सम्यग्दृष्टेश्वत्वारः स्थितिबन्धाः क्रमेण भवन्ति । तद्यथा-अविरतसम्यग्दृष्टेः पर्याप्तस्य जघन्यस्तस्यैव चोत्कृष्टः स्थितिबन्ध इति द्वौ, एवमपर्याप्तस्यापि at, fear इति । " सन्निचउरु" त्ति संज्ञिनां - संज्ञिपञ्चेन्द्रियाणां मिथ्यादृष्टीनामिति सामर्थ्याद् गम्यते चत्वारः स्थितिबन्धाः, तद्यथा - संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्योत्कृष्टभेदाद् द्वौ, एवमपर्याप्तस्यापि जघन्योत्कृष्टभेदाद् द्वौ एवं स्थितिबन्धाविति सर्वे चत्वारः । एते प्रदर्शितरूपाः सर्वेऽपि स्थितिबन्धा यथा यावद्गुणा भवन्ति तदाह - "ठिधातुकम संखगुण" त्ति स्थितीनां बन्धाः स्थितिबन्धाः - प्रदर्शितरूपा: 'अनुक्रमेण' उत्तरोत्तरपरिपाट्या 'सङ्खयगुणाः, सङ्घ गुणा भवन्तीत्यक्षरार्थः । भावार्थ: पुनरयम् - पर्याप्तासंज्ञिपञ्चेन्द्रियोत्कृष्टस्थितिबन्धाद् यतेरुत्कृष्टः स्थितिबन्धः सङ्ख्ये यगुणः २६ ततो देशविरतस्य जघन्यः स्थितिबन्धः सङ्ख्ये यगुणः २७ ततो देशविरतस्योत्कृष्टः स्थितिबन्धः सङ्ख्ये यगुणः २८ ततोऽविरतापर्याप्तस्य जघन्यः स्थितिबन्धः सङ्ख्ये यगुणः २९ ततः पर्याप्ताविरतस्य जघन्यः स्थितिबन्धः सङ्खये यगुणः ३०