________________
६७-६६ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
[ २२७ अभिहिताः सप्रमेदा जीवानामौपशमिकादयो भावाः । साम्प्रतमेतानेव कर्मविषये चिन्तयन्नाह
मोहेव समो मीसो, चउघाइसु अट्ठकम्मसु य सेसा ।
धम्माइ पारिणामियभावे खंधा उदहए वि ॥ ६६ ।। 'मोहे एव' षष्ठीसप्तम्योरथ प्रत्यभेदाद् , यथा वृक्षे शाखा वृक्षस्य शाखा, मोहनीयस्यैव कर्मणः 'शमः' उपशमोऽनुदयावस्था भस्मच्छन्नाग्नेरिव न तु समस्तानां कर्मणाम्। "मीसोचउघाइसु" त्ति 'मिश्रः' क्षयोपशमः, तत्र क्षयः-उदयावस्थस्यात्यन्ताभावस्तेन सहोपशमः-अनुदयावस्था दरविध्यातवह्निवत् क्षयोपशमः, चतुपु' चतुःसङ्ख्य षु 'घातिषु' ज्ञानादिगुणघातकेषु कर्मस्वित्युत्तरोक्तमत्रापि सम्बन्धनीयम् , ततो ज्ञानावरणदर्शनावरणमोहनीयान्तरायलक्षणानां घातिकर्मणामेव क्षयोपशमो भवति न त्वघातिकर्मणामिति । 'अष्टकर्मसु' ज्ञानावरणाद्यन्तरायावसानेषु 'चः' पुनरर्थे अष्टकर्मसु पुनः 'शेषाः' ओदयिकक्षायिकपारिणामिकभावा भवन्ति । तत्रोदयः-विपाकानुभवनम् , क्षयः-अत्यन्ताभावः, परिणामः-तेन तेन रूपेण परिणमनमित्यक्षरार्थः । भावार्थस्त्वयम्मोहनीयकर्मणः पश्चापि भावाः प्राप्यन्ते । मोहनीयवर्जितज्ञानावरणदर्शनावरणान्तरायलक्षणानां तु त्रयाणां घातिकर्मणामुदयक्षयक्षयोपशमपरिणामस्वभावाश्चत्वार एव भावा भवन्ति न पुनरुपशमः । शेषाणां वेदनीयायुर्नामगोत्रस्वरूपाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणास्त्रय एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति ।
प्रतिपादिता जीवेषु तदाश्रितकर्मसु च पश्चापि भावाः । अधुना तान् अजीवेषु बिभणिषुराह-"धम्माइ" इत्यादि । इह पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः १ अधर्मास्तिकायः २ आकाशास्तिकायः ३ पुद्गलास्तिकायः ४ कालद्रव्यं ५ चेति परिग्रहः। तत्र धारयतिगतिपरिणतजीवपुद्गलान् तत्स्वभावतायामवस्थापयतीति धर्मः, अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः-सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । तथा न धारयतिगतिपरिणतानपि जीवपुद्गलान् तत्स्वभावताय नावस्थापयति स्थित्युपष्टम्भकत्वात् तस्येत्यधर्मः शेषं प्राग्वत् । आ-समन्तात् काशते-अवगाहदानतया प्रतिभासत इत्याकाशः, शेषं प्राग्वत् । पूरणगलनधर्माणः पुद्गलाः, पृषोदरादित्वाद् इष्टरूपसिद्धिः शेषं पूर्ववत् । तथा "कलण सङ्ख्याने" कलनं कालः, कल्यते वा-परिच्छिद्यते वस्त्वनेनेति काला, कलानां वा-समयादिरूपाणां समूहः कालः । आह सामूहिके प्रत्यये नपुंसकलिङ्गेन भवितव्यम् , यथा कापोतं मायूरं चेति, [तन्न,] यदाहुः श्रीहेमचन्द्रसम्पिादा:-उच्यते रूढिवशाद् लिङ्गस्य न नियमः । यदाह पाणिनि:लिङ्गमशिष्यम् , लोकाश्रयत्वात् तस्येति । ततः काल एव तत्तद्रूपद्रवणाद् द्रव्यं कालद्रव्यम् , तत्र च कालस्य वस्तुतः समयरूपस्य निर्विभागत्याद् न देशप्रदेशसम्भवः, अत एवात्रास्तिकायत्वाभावो वेदितव्यः ।