________________
३८]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०३. 'जह बेईदियाणं तहा तेइंदियाणं चउरिंदियाण वि भाणियव्यं पंचिंदियतिरिक्खजोणियाण वि । ( अनुयो० पत्र २०४-१) इति ।
तथापि सूचिपरिमाणहेतुयोजनगतासङ्ख्यातरूपसङ्ख्याया बहुभेदत्वान्न यथोक्तविशेषाधिकत्वाभिधानव्याघातः । अत एव च हेतोस्तिर्यग्योनिपञ्चेन्द्रियेषु द्वीन्द्रियादितुल्यतया सूत्रेभिहितेष्वपि तत्रापि नरनिरयदेवप्रक्षेपेऽपि पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोका एव द्रष्टव्याः । यदभ्यधायि
पंचिंदिया य थोवा, विवज्जएण वियला विसेसहिया । (जीवस० गा० २७५) द्वीन्द्रियेभ्योऽपि चेकेन्द्रिया अनन्तगुणाः, वनस्पतिकायजीवराशेरनन्तानन्तत्वात् । यदुक्तमा---
एएसि णं भंते ! एगिदियादियतेइंदियचउरिदियपंचिंदियाण य कयरे कयरेहितो अप्पा वा बहु आ वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पंचिंदिया, चउरिदिया विसेसाहिया, तेंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा ।।
(प्रज्ञापनापद ३ पत्र १२०-२) - "तस थोव" इत्यादि । 'त्रसाः' द्वीन्द्रियादयः पूर्वनिर्दिष्ट सङ्ख्यास्तेजस्कायिकादिभ्यः स्तोकाः। तेभ्यस्त्रसेभ्योऽसङ्ख्यातगुणाः "अग्गि' त्ति अग्निकायिकाः, तेषां सूक्ष्मवादरभेदभिन्नानामसङ्खये यलोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः "भृ" ति पृथिवीकायिका विशेषाधिकाः । तेभ्यः "जल" त्ति अप्कायिका विशेषाधिकाः । तेभ्यः 'अनिल" ति वायुकायिका विशेषाधिकाः । यद्यपि च एतेषामपि पृथिवीकायिकादीनामसङ्घय यलोकाकाशप्रदेशराशिप्रमाणतया सूत्रे अविशेषेण निर्देशः कृतः, तथा चोक्तम् --
जहा पुढविकाइयाणं एवं आउकाइयाणं पि । (अनु० पत्र २०२--१) इत्यादि। तथापि लोकानामसङ्ख्यातत्वस्याऽनेकभेदभिन्नत्वादिहवं विशेषाधिकत्वाभिधानेऽपि न कश्चिदोषः । उक्तं च श्रीप्रज्ञापनायाम्----
" "एएसि णं भंते ! तसकाइयागं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं १ यथा द्वीन्द्रियाणां तथा त्रीन्द्रियाणां चतुरिन्द्रियाणामपि भणितव्यं पञ्चेन्द्रियतिर्यग्योनिकानामपि ॥ २ पञ्चेन्द्रियाश्च स्तोका विपर्ययेण विकला विशेषाधिकाः ।। ३ एतेषां भदन्त ? एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा बहुका वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, एकेन्द्रिया अनन्तगुणाः॥ ४ यथा पृथ्वीकायिकानामेवमप्कायिकानामपि ॥ ५ एतेषां मदन्त ? त्रसकायिकानां पृथ्वीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानामकायिकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ? सर्वस्तोकास्त्रसकायिकाः, तेजम्कायिका असङ्ख्येयगुणाः, पृथ्वीकायिका विशेषाधिका, अप्कायिका विशेषाधिकाः, वायुकायिका विशेषाधिकाः, अकायिकाअनन्तगुणाः, वनस्पतिकायिका अनन्तगुणाः ।।