________________
१४८
देवेन्द्रसूरिबिर चितः स्वोपज्ञटीकोपेतः
[ गाथा
सृणामुदय इति तथा संक्षिपर्याप्ते, उदीरणास्थानानि पश्च, तद्यथा--सप्त अष्ट षट् पश्च द्वे इति । तत्र यदाऽनुभूयमानभवायुरावलिकावशेपं भवति तदा तथास्वभावत्वेन तस्यानुदीर्यमाणत्वात् सप्तानामुदीरणा, यदा त्वनुभूयमानभवायुरावलिकावशेषं न भवति तदाऽष्टानां प्रकृतीनामुदीरणा। तत्र मिथ्यादृष्टिगुणस्थानकात् प्रभृति यावत् प्रमत्तसंयतगुणस्थानकं तावत् सप्तानामष्टानां वा उदीरणा, सम्यग्मिथ्यादृष्टिगुणस्थानके तु सदेवाऽष्टानामेव उदारणा, आयुष आवलिकाशेषे । मिश्रगुणस्थानस्यैवाऽभावात् । तथाऽप्रमत्तगुणस्थानकात् प्रभृति यावत् मूक्ष्म सम्परायगुणस्थानकस्यावलिकाशेपो न भवति तावद् वेदनीयायुर्वजोना षण्णां प्रकृतीनामुदी. रणा, तदानीमतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायस्थानाभावात्। आवलिकाव. शेषे तु मोहनीयस्याऽप्यावलिकाप्रविष्टत्वेनोदीरणाया असम्भवात् ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणामेवोदीरणा | एतेषामेव चोपशान्तमोहगुणस्थानकेऽप्युदीरणा । क्षीणमोहगुणस्थानकेऽप्येतेषामेव यावद् आवलिकामात्रमवशेषो न भवति, आवलिकावशेषे तु ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिकाप्रविष्टत्वाद् नोदीरणेति द्वयोरेव नामगोत्रयोरुदीरणा, एवं सयोगिकेवलिगुणस्थानकेऽपि । अयोगिकेवलिगुणस्थानके तु वर्तमानो जीवः सर्वथाऽनुदीरक एव । ननु तदानीमप्येष सयोगिकेवलिगुणस्थानक इव भवोपनाहिकर्मचतुष्टयोदयवान् वर्तते ततः कथं तदाऽपि तयोर्नामगोत्रयोरुदीरको न भवति ? नैष दोषः, उदये सत्यपि योगसव्यपेक्षत्वाद् उदीरणायाः, तदानीं च तस्य योगासम्भवादिति ।। ८ ।।
तदेवं जीवस्थानकेषु गुणस्थानकाद्यभिधाय साम्प्रतं मार्गणास्थानेषु जीवस्थानकादि विवक्षुस्तान्येव तावद् निर्दिशन्नाह- .. .. .....
गइइंदिए 'य काए, जोए वेए कसायनाणेसु । ...
संजमदंसणलेसा, भवसम्मे सनिआहारे ।। ९॥ गम्यते-तथाविधकर्मसचिवैजोवैः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः१। इन्दनादिन्द्रः-आत्मा ज्ञानेश्वर्ययोगात् तस्येदमिन्द्रियम् , 'इन्द्रियम्" ( सि० ७.१.१७४) इति सूत्रेणाऽभीष्टरूपनिष्पत्तिः, ततो गतिश्च इन्द्रियं च गतीन्द्रियं तस्मिन् गतीन्द्रिये, एवमन्यत्रापि द्वन्द्वः कार्यः, 'चः' समुच्चये २ ।/चीयते-यथायोग्यमौदारिकादिवर्गणागणेरुपचयं नीयत इति कायः “चितिदेहावासोपसमाधाने कश्चादेः” ( सि० ५-३७९ ) इति घञ्प्रत्ययश्चकारस्य ककारः (च) ३॥ युज्यते धावनवल्गनादिचेष्टास्वात्माऽनेनेति "पुन्नाम्नि" (सि० ५. ३-१३०) इति योगः ४। वेद्यते-अनुभूयत इन्द्रियोद्भूतं सुखमनेनेति वेदः । “कप शिप जप ज्ञष" इत्यादिदण्डकधातुः, कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कष: