________________
१४६
[ गाथा
भावात् सप्तानामेव बन्धः । तथा यदाऽनुभूयमानभवायुरुदयावलिकावशेषं भवति तदा सप्तानामुदीरणा, ́ अनुभूयमानभवायुषोऽनुदीरणात्, आवलिकाशेषस्योदीरणानर्हत्वात् । उदीरणा हि उदयावलिका बहिर्वर्तिनीभ्यः स्थितिभ्यः सकाशात् कषायसहितेन कषायासहितेन वा योगकरणेन दर्लिकमाण्य उदयसमय प्राप्तदलिकेन सहाऽनुभवनम् ।
तथा चोक्तं कर्मप्रकृतिचूण-
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
'उदयावलियाबाहिरिल्लठिईहिंतो कसाय सहिया सहिएणं जोगकरणेणं दलियमाकड्डिय उदपत्तदलिएण समं अणुभवणमुदीरणा ।
ततः कथमावलिकागतस्योदीरणा भवति १, न च परभवायुषस्तदोदीरणासम्भवः, तस्योदयाभावात्, अनुदितस्य च उदीरणानर्हत्वात् । शेषकालं त्वष्टानामुदीरणा | सच्च उदयश्व प्राकृतत्वात् सन्तोदया, अष्टानामेव कर्मणां त्रयोदशसु जीवस्थानकेषु पूर्वेषु भवतः । तथाहि -- एतेषु त्रयोदशसु जीवस्थानकेषु सर्वकालमष्टानामपि सत्ता. यतोऽष्टानामपि कर्मणा सत्ता उपशान्तमोहगुणस्थानकं यावदनुवर्तते । एते च जीवा उत्कर्षतो यथासम्भवमविरतसम्यग्दृष्टिगुणस्थानकवर्तिन एवेति । एवमुदयोऽप्येतेषु जीवस्थानेष्वष्टानामेव कर्मणां द्रष्टव्यः । तथाहि — सूक्ष्मसम्परायगुणस्थानकं यावदष्टानामपि कर्मणामुदयोऽवाप्यते एतेषु च जीवस्थानकेषूत्कर्पतोऽपि यथासम्भवमविरतसम्यग्दृष्टिगुणस्थानकसम्भव इति ॥ ७ ॥
सत्तगबंधा, संतुदया सत्त अट्ठ चत्तारि । सन्तइ छ पंच दुगं, उदोरणा सन्निपज्जते ॥ ८ ॥
-संज्ञी चासौ पर्याप्त संज्ञिपर्याप्तः तस्मिन् संज्ञिपर्याप्ते चत्वारो बन्धा भवन्ति । तद्यथासप्तानां प्रकृतीनां बन्ध एकः, अष्टानां प्रकृतीनां बन्धो द्वितीयः षण्णां प्रकृतीनां बन्धस्तृतीयः, एकस्याः प्रकृतेर्वन्धचतुर्थो बन्धः । तत्राऽऽयुर्वर्जानां सप्तानां कर्मप्रकृतीनां बन्धों जघन्येनाऽन्तमुहूर्त यावद् उत्कर्षेण च त्रयस्त्रिंशत्सागरोपमाणि षण्मासोनानि अन्तमुहूर्तोन पूर्वकोटि त्रिभागाभ्यधिकानि । तथाऽऽयुर्वन्धकाले तासामष्टानां बन्धोऽजघन्योत्कर्षेणाऽन्तमुहूर्तप्रमाणः, आयुषि बध्यमानेऽष्टानां प्रकृतीनां बन्धः प्राप्यते, आयुषश्च बन्धोऽन्तमुहूर्तमेव कालं भवति, न ततोऽप्यधिकम् । तथा एता एवाष्टावायुमहनीयवर्णाः पट्, एतासां च जघन्येन एकं समयं बन्धः । तथाहि--ज्ञानावरणदर्शनावरणवेदनीय नामगोत्रान्तरायरूपाणां षण्णां प्रकृतीनां बन्धः सूक्ष्मसम्परायगुणस्थाने, तत्र चोपशमश्रेण्यां कश्विदेकं समयं स्थित्वा द्वितीयसमये भवक्षयेण
१ उदयावलिकाबाह्यस्थितिभ्यः कषायसहितासहितेन येोगकरणेन दलिक्रमाकृष्य उदयप्राप्तदलिकेन समं अनुभवनमुदीरणा ॥