________________
४१
षडशीतिनामा चतुर्थः कर्मग्रन्थः।। एवं मनोयोगोऽपि चतुर्धा द्रष्टव्यः ४ । काययोगः सप्तधा--औदारिकम् १ औदारिकमिश्रं २ वैक्रियं ३ बैंक्रियमिश्रम् ४ आहारकम् ५ आहारकमिश्रं ६ काणं च ७ । तत्रौदारिककाययोगस्तियङ्मनुष्ययोः । तयोरेवापयांप्तयोगेदारिकमिश्रकाययोगः । वैक्रियकाययोगो देवनारकयोस्तिर्यमनुष्ययोर्वा वैक्रियलब्धिमतोः क्रियमिश्रकाययोगोऽपर्याप्तयोदेवनारकयोस्तिर्यङ्मनुष्ययोवा क्रियस्यारम्भकाले परित्यागकाले च । आहारक चतुर्दशपूर्वविदः । आहारकमिश्रकाययोग आहारकस्य प्रारम्भसमये परित्यागकाले च । कार्मणकाययोगोऽष्टप्रकारकर्मविकाररूपशरीरचेष्टास्वरूपोऽन्तरालगतावुत्पत्तिप्रथमसमये केवलिसमुद्घातावस्थायां चा तानेतान् योगान् जीवस्थानकेषु व्याचिख्यासुराह
अपजत्तछकि कम्मुरलमीस जोगा अपजस नसुते ।
सविउव्वमीस एसु, तणुपज्जेसु उरलमन्ने ॥ ४ ॥ अपर्याप्तानां-सूक्ष्मवादरद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पटकं अपर्याप्तषट्कं तस्मिन् अपर्याप्तपटके संज्ञिपञ्चेन्द्रियापर्याप्तवर्जितेषु पटसु अपर्याप्तेषु योगी भवतः । द्विवचनस्य बहुवचनं प्राकृतत्वात् , यथा-'हत्था पाया" इत्यादौ । कौ योगा ? इत्याह--कार्मणौदारिकमिश्रो । तत्र कार्मणकाययोगोऽपान्तरालगतायुत्पत्तिप्रथमसमये च, शेषकालं त्वौदारिकमिश्रकाययोगः । “अपज्जसन्निसु ते सविउब्वमीस' त्ति ‘अपर्याप्तसंज्ञिषु' संश्यपर्याप्तजीवेषु 'तो' पूर्वोक्तौ कार्मणौदारिकमिश्रकाययोगी भवतः, किं केवलौ ? न इत्याह-सह वैक्रियमिश्रेण वर्तेते इति सबैक्रियमिश्री । तथा चापर्याप्तसंज्ञिनि त्रयो योगा भवन्ति कार्यणकाययोग
औदारिकमिश्रकाययोगो वैक्रियमिश्रकाययोगश्च । तत्र कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च, शेषकालं तु तिर्यङ्मनुष्ययोरौदारिकमिश्रकाययोगः । संज्ञिनोऽपर्याप्तस्य देवनारकेषु पुनरुत्पद्यमानस्य क्रियमिश्रकाययोगो द्रष्टव्यो न शेषस्य, असम्भवात् , मिश्रता चात्र कार्मणेन सह द्रष्टव्या । अत्रैव मतान्तरमुपदर्शयन्नाह--'एषु' पूर्वनिर्दिष्टेषु शेषपर्याप्त्यपेक्षयाऽपर्याप्तेषु तनुपर्याप्त्या पर्याप्तेषु शरीरपर्याप्तेष्वित्यर्थः 'औदारिकम्' औदारिककाययोगम् 'अन्ये' केचिदाचार्याः शीलाङ्कादयः प्रतिपादयन्तीति शेषः, शरीरपर्याप्त्या हि परिसमाप्निवत्या किल तेषां शरीरं परिपूर्ण निष्पन्नमिति कृत्वा । तथा च तद्ग्रन्थःऔदारिककाययोगस्तिर्यङ्मनुष्ययोः शरीरपर्याप्तेरूद्धम् , तदारतस्तु मिश्रः ।
(आ. प्र. श्रु. द्वि. अ० पत्र ९४) इति । नन्वनया युक्त्या संज्ञिनोऽपर्याप्तस्य देवनारकेषत्पद्यमानस्य तनुपर्याप्त्या पर्याप्तस्य वैक्रियमपि शरीरमुपपद्यत एव किमिह तद् नोक्तम् ? इति, उच्यते-उपलक्षणत्वाद् एतदपि द्रष्ट