________________
अथ पट्टावली। श्रीवर्धमानजिनराजपदक्रमेण
__ श्रीआर्यरक्षितमुनीश्वरसूरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ
संस्थापका यतिवरा गुरवो बभूवुः ॥६॥ तच्चारुपट्टकमला[ज]लराजहंसा
श्चारित्रमंजुकमला श्रवणावतंसाः । गच्छोधिपा बुधवरा जयसिंहसूरि
नामानि उ-द्यदमलोरुगुणावदाताः ॥७॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः
सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः । आसंस्ततः सकलसूरिशिरोवतंसाः
सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥८॥ तेभ्यः क्रमेण गुरवो जिनसिंहसूरि
गोत्रा बभूवुरथ पुज्यतमा गणेशाः । देवेंद्रसिंहगुरवोऽखिललोकमान्या
___ धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥९॥ पुज्याश्च सिंहतिलकास्तद्नु प्रभूत
भाग्या महेंद्रविभवो गुरवो बभूवुः । चक्रेश्वरीभगवतीविहितप्रसादाः
__ श्रीमेरुतुंगगुरवो नरदेववंद्याः ॥१०॥ तेभ्योऽभवन् गणधरा जयकीर्तिसूरि- .
___मुख्यास्ततश्च जयकेसरिसृरिराजः । सिद्धांतसागरगणाधिभुवस्ततोऽनु
श्रोभावसागरगुरूरुगुणा अभूवन् ॥११॥ तद्वंशपुष्करविभासनभानुरूपाः
सूरीश्वराः सुगुण[शे]वधयो बभूवुः ॥ षट्पदो। तत्पट्टोदयशैलशृंगकिरणाः शास्त्रांबुधेः पारगा
भव्यस्वांतचकोरलासनलसत्पर्णाभचंद्राननाः । श्रीमंतो विधिपक्षग[च्छ)तिलका वादींद्रपंचानना आसन् श्रीगुरुधर्ममूर्तिगुरवः सूरींद्रवंद्यांहूयः ॥१२॥ तत्पद्वेऽथ जयंति मन्मथभटाहंकारशवोपमाः
श्रीकल्याणसमुद्रसूरिगुरवः कल्याणकंदांबुदाः ।