________________
कारयित्वा वरों रम्या, हर्षपाथोधिचन्द्रमाः ।। नानाविधानि चान्यानि, सुवर्णभूषणानि च ॥२४॥ निर्माप्य शुद्धभावेन, नृपतिविंशदाशयः । श्रीपार्श्वनाथबिम्बाऽग्रे, स्त्रात्मकल्याणहेतवे ॥२४४॥ अढोकयानृपो भावै,-भूषणानि सुवर्णभाक । बिम्ब श्रीपार्श्वनाथस्य, राजते भूषणैस्ततः ॥२४५॥ .
पञ्चभिः कुलकम् ॥ अलंकारैरलंचक्र-, रन्येऽपि भावभासुराः । भक्त्या च श्रद्धया भव्यं, बिम्बं चित्तस्य चित्रकृत् ।।२४६॥ नेत्रयुगमहीपृथ्वी,-संख्यवक्रमवर्षके । माघमासे सिते पक्षे, पंचम्यां रविवासरे ॥२४७॥ जैनधर्मनभःसः, सूरिभिर्मत्रमंत्रितः । वासक्षेपश्च बिम्ब तत् , स्थापितं श्रीजिनालये ॥२४॥ कण्ठो मौक्तिकमालाभिः, मुकुटान्मस्तकं प्रभोः ।.. राजेते च तथा कौँ, रत्नकुण्डलमण्डितौ ॥२४९॥ अभ्रान्तिकरं पृष्ठे, भामण्डलं सुभूषितम् ! छत्रत्रयं च नाथस्य, राजते मस्तकोपरि ॥२५०॥ शुभे लग्ने प्रतिष्ठां च, विधाय सरिपुगवाः ।। आनंदाब्धिनिमग्ना ये, स्तोतुमारेभिरे स्तवैः ॥२५१॥