________________
अध्वनि वार्तया वृत्ता, विविधैश्च कुतूहलै: । आजगाम ततो राजा, चैलचपुरमद्भुतम् ॥१२६॥ दृष्ट्वा नृपं च नीरोगं, काश्चनदेहधारिणम् ।। हर्षितैर्मुदितैलोकैः, पुष्पौधैः स्वागतं कृतम् ॥१२७॥ संतुष्टः स्वागतैश्चित्ते, राजवेश्मनि चाविशत् ।' राज्ञीविविधसत्कारैः, हर्षदैः स्वान्तकर्षकैः ॥२८॥ एलचनगरे राज्ञः, शासनेन महोत्सवः । विविधैश्च कृतो लौकः, सुमंगलैः पुरस्सरः ॥१२९॥ अहो पुण्यमहोभाग्य,-महो सौभाग्यमुत्तमम् । जागधंद्यापि राज्ञश्च, वदन्ति च परस्परम् ॥१३०॥ अतर्कितं जलं लब्धं, सर्वरोगोपशामकम् । तज्जलाद्भुतमाहात्म्यं, जिह्वया नैव वर्ण्यते ॥११॥ नृपश्च नृपभार्याचा, हर्षावेशवशंवदाः । पीनास्तुष्ट्या च संभ्रान्ता, राजन्ते राजवेश्मनि ॥१३२॥ प्रासादसप्तमीभूमी, विभावयाँ तदेकदा । पल्यंके पुष्पशय्यायां, सुखसुप्तो नरेश्वरः ॥१३॥ ददर्श गाढ निद्रांतः, स्वप्नमेकं महत्तरम् । अदृष्टश्रुतपूर्व तं, स्वान्तानंदनिदानकम् ॥१३४॥ समागत्यामरो वक्ति, दिव्यालंकारभूषितः । शृणु राजन् ! समाधिस्थो, जलमाहात्म्यमुल्बणम् ॥१५॥