________________
संसार - सागरात्पोतं, दवा चारित्ररूपकं । ममोद्धारस्य कर्त्तारं, सूरिं लब्धगुरुं स्तुवे. सरस्वतीं महादेव, ज्ञानपाथोनिधीश्वरीं । भक्तानां वरदां वन्द्यां सद्ग्रंथादावभिष्टुवे. यस्य च्छायां समासाद्य, गोडीपार्श्वजिने शितुः । बालापुरे पुरे श्रेष्ठे, रम्यं ग्रंथं तनोम्यहम् . अंतरिक्षस्थपार्श्वस्य तीर्थस्य धर्मवेश्मनः । विदर्भातर्गतस्यास्य माहात्म्यमुत्तमं ब्रुवे. तच्चमत्कारिमूर्त्तस्तु, दर्शनात् पूजनाच वे । भव्याश्चित्तेप्सितं सर्वं लभन्ते फलमात्मन: अंतरिक्षस्थित बिम्बं देवाधिएँ जिनोपमं । दृष्ट्वा भक्तिभराकान्ता, मोदन्ते भक्तशेखराः कलौ कुत्रापि नैवास्ति, चमत्कारकरं महत् । प्रत्यक्षं रूपमीदृक्षं, वदन्ति नास्तिका अपि दूरदेशांतराद् भक्ताः तीर्थयात्रा - कृते सदा । नैके भव्याः समायान्ति, तीर्थेऽस्मिन् पूर्णभक्तितः ॥ १३ ॥ तीर्थ भक्तिरता भद्रा, इभ्याः सभ्या गुणान्विताः । द्रव्यमनर्गलं नित्यं, व्ययन्ति भक्ति - पूरिताः । ॥१४॥ भवदावानलाद्दग्धा, दीना दुःखौघपीडिताः । उपयान्ति जनास्तेऽपि, शान्ति पार्श्वप्रसादतः
॥६॥
॥७॥
Tiell
॥९॥
॥१०॥
॥११॥
॥१२॥
॥१५॥