________________
तत्वन्यायविभाकरप्रभृतिसद्ग्रन्थैकगुम्फे प्रभुम् , अर्हच्छासनसम्पचारकरणे नित्योद्यतं संय्यतम् । भावाध्यात्ममयं जिनस्मृतिमयं श्रद्धाक्रियाचिन्मयम् , वन्दे पण्डितवन्दिताङ्घियुगलं श्रीलब्धिसूरीश्वरम् ॥५॥ गम्भोरं गुणलक्ष्मणं गणिपति काम जयन्तं सदा, सत्कीति भुवने नवीनकवितागुम्फे प्रवीणं मुदा । श्रीपूज्यं महिमाञ्चितं जिनपतेः श्रीपादपद्मार्चकम् , श्रीभद्रङ्करविक्रमेण ललितं श्रीलब्धिसूरिं स्तुवे ॥६॥
चरमचतुर्मासान्तः,
मुंबइनगरे लालबागमध्ये । मुनिविधुगगनाक्षियुते,
विक्रमवर्षे समाधिस्थः ॥७॥ श्रावणसितपञ्चम्यां, . स्वर्गतोऽरिहंतेति स्मरन् यश्च । तं विजयलब्धिमूरि, प्रणमामि प्राञ्जलिः प्रयतः ॥
आर्यागाथायुग्मम