________________
: १३८ : नृणां मनोगतविकार-भराद्रिवज्रम् ,
- संसाररोगमुविनाशनभाववैद्यम् । प्रोडप्रतापसुमगन्धितविश्वविश्वम् ,
. वन्दे सदा विमलधर्मदधर्मनायम् ॥१५॥ संसारवह्निशमनार्थसुनव्यमेघम् ,
भक्तार्थपूरणसमर्थमुपर्वक्षम । श्रीविश्वसेनतनयं समविश्वपूज्यम्,
श्रीशान्तिनाथममरेशनतं नमामि ॥१६॥ चन्दारुदेवनरनाथनमस्यिताघ्रिम् ,
श्रीजनशासनकर शिवशङ्करं वै । भव्याङ्गिनां हितकर तरणी भवाम्यो,
श्रीकुन्थुनाथमभयं जिनपं प्रवन्दे ॥१७॥ श्रेष्ठं विशिष्टशरणं, शरणागतानाम् ,
मोकमार्गशुभमङ्गलदिव्यदीपम् । भव्यबजाजपरिबोधनमव्यसूर्यम,
३. बन्देरनाथपुरुषोत्तममीशमुख्यम् ॥१८॥ देवेन्द्रराजिपरिराजितपार्श्वदेशम् ,
सद्दष्टिचिचरणभूषणदीप्यमानम् । आश्चर्यकारिगुणरत्नखनि महान्तम्,
मल्लिप्रभुं जिनवरं प्रणमामि नित्यम् ॥१९॥