________________
: १३४ :
भव्याजबोधतीक्ष्णांशु, कर्माद्रिभेदने वज्रम् । नन्द्रस्तुतपादाब्ज, त्रिधा पार्थजिनं देवम् ॥४॥
चतुर्भिः कलापकम् विदर्भदेशदीपाय, मिथ्याधनवातकल्पाय ।। अनंतानंदतल्पाय, जिनेन्द्राय नमोस्तु ते ॥५॥ अश्वसेननृपतनुजाय, वामाकुतिसुरत्नाय । शाश्वतमुक्तिनिवासाय, जिनेन्द्राय नमोस्तु ते भक्तमानसहंसाय, केवलकमलानलिनाय । भव्यकेलिजीमूताय, जिनेन्द्राय नमोस्तु ते ॥७॥ गगनस्पर्शिसुपासादे, नवीने राजमानाय । अंतरिक्षतीर्थतिलकाय, जिनेन्द्राय नमोस्तु ते ॥८॥ प्रतिष्ठिताय तृतीयायां, फाल्गुनशुक्लपक्षे च । ० २ ० २ बिन्दुकरशून्ययुग्मेऽब्दे, नमः श्रीपार्श्वनाथाय ॥९॥ कृतं स्तवनं प्रभोर्यस्य, मया मोदेन पार्श्वस्य । भुवनतिलकेन सरिणा, जिनेन्द्राय नमस्तस्मै ११०॥