________________
उवाच श्राविका तत्र, धर्मस्था मृदुभाषिणी । तीर्थेऽत्र चैत्यकार्याय, सुज्ञा समरताभिधा ॥८९२॥ आज्ञापयन्तु मामेव, भवन्तो गुरवोऽधुना । वपेयं स्वं यतो लक्षं, क्षेत्रे जिनालयेऽनघे ॥८९३॥ लक्षमितं निजं द्रव्यं, वितरीतुं जिनालये । उद्युक्ता श्राविका सर्वैः, श्रोतृभिश्च प्रशंसिता ॥८९४॥ सर्वैः समितिसत्सभ्यः, वर्धापिता महर्षत: । तस्या लक्षमितं द्रव्यं, तैः स्वीकृतं मुदा तदा ॥८९५॥ शिल्पिभिः क्रियमाणः स, शुद्धभूमौ जिनालयः । प्रतिदिनं सुशिल्पज्ञैः, दृश्यमानो विशेषतः ॥८९६॥ चतुर्विशतिदेवानां, बिम्बानां स्थापनाऽधिका ।। कर्तव्या सुविशेषेण, तीर्थरूपोपदर्शिका ॥८९७॥ पार्श्वतो मूलचैत्यस्य, वर्तुलाकारवृत्तितः । तद् देवकुलिकायुक्तं, चैत्यं कार्य सुशोभनम् ॥८९८॥ तासु जिनेन्द्रबिम्बानां, नव्यानां सौम्यतावताम् । चतुर्विशतिमात्राणा, स्थापन निश्चितं च तेः ॥८९९॥ श्रीबालापुरवास्तव्य-सोहनलालसङ्घकः । स्वर्गस्थो दानपुण्येन, विश्रुतो धर्मकार्यतः ॥९००॥ तस्य पत्नी सुधर्मस्था, द्वादशवतपालिका । सरस्वतीति विख्याता, नाम्ना दानदयापरा ॥९०१॥