________________
नमः श्रीगुरुदेवाय, सिद्धान्तार्थस्य दिने । शरण्यपादपद्माय, विजयलब्धिमूग्ये तीर्थ धर्मावतारेऽत्र, चान्तरिक्षे शुभावनौ । व्योमस्थपार्श्वनाथस्य, कलावतिशयो महान् ॥८५६॥ वर्णितः प्रथमे खण्डे, द्वितीयेऽपि तथैव च । तृतीये दर्शनं जातं, येन हेतुः स वर्णितः ॥८५७॥
युग्मम् ॥ इति सुवर्णनं रम्यं, धर्माभ्युदयकारणम् । कृतं खण्डे तृतीयस्मिन् ,
स्ताद् भद्राय मनस्विनाम् ॥८५८॥
इतिश्री अन्तरिक्षपार्श्वनाथदर्शनस्य हेतुः, खानदेशे समा. गमनम् , धर्मकार्यसमन्विता नन्दुरबारचतुर्मासी, ततोऽञ्जनशलाकाप्रतिष्ठा-दीक्षादि-सुकृत्यगर्मित-मालेगाम-चतुर्मासी, अन्तरिक्षसंस्थानसमितिसभ्यागमनम् , लेपारम्भात्पूर्व अन्तरिक्षपार्श्वनाथप्रतिमाया दिगम्बरैः कृतविडंबनादिविज्ञापनम् , मम पार्श्व लेपमुहूर्तों लब्धस्तैः, तस्मिन् मुहूर्त लेपः समारब्धः, निर्विघ्नतया समाप्तः, सविज्ञप्ति शिष्यैः सहाष्टादशाभिषेक विधि: प्रसङ्गेऽहमत्र समागतः, सभ्यसम्मतिपूर्वको मया नव्यचैत्यानिर्णयः कृतः, नव्यचैत्यनिर्माणस्य लाभः बालापुरवास्तव्यसमरतंश्राविकायै दत्तः, चतुर्विशतिदेवकुलिकालाभः बालापुरवास्तव्यसरस्वती