________________
|| सरस्वती-भक्तामरम् || अस्मादृशां वरमवाप्तमिदं भवत्याः
'सत्या' व्रतोरु विकृतेः सरणिं न यातम् । किं चोद्यमैन्द्रमनघे! सति ! 'सारदे'ऽत्र र
किं मन्दरादिशिखरं चलितं कदाचित् ? ||१५|| निर्माय शास्त्रसदनं यतिभि र्ययैकं
प्रादुष्कृतः प्रकृतितीव्रतपोमयेन । उच्छेदितांहउलपैः सति! गीयसे चिद्
दीपोऽपरस्त्वमसिनाऽथ जगत्प्रकाशः ||१६|| यस्या अतीन्द्रगिरि 'राङ्गिरस' प्रशस्य
स्त्वं शाश्वती स्वमतसिद्धिमही महीयः । ज्योतिष्मयी च वचसां तनुतेज आस्ते
सूर्यातिशायि महिमाऽसि मुनीन्द्रलोके ||१७|| स्पष्टाक्षरं सुरभि सुभ्र समृद्धशोभं
- जेगीयमानरसिकप्रियपञ्चमेष्टम् । देदीप्यते सुमुखि ! ते वदनारविन्दं । P विद्योतयज्जगद पूर्वशशाङ्कबिम्बम् ||१८|| प्राप्नोत्यमुत्र सकलावयवप्रसङ्गि--
निष्पत्तिमिन्दुवदने ! शिशिरात्मकत्वम् । सिक्तं जगत् त्वदधरामृतवर्षणेन
कार्य कियज्जलधरैर्जलभारन] : ? ||१९|| मातस्त्वयी मम मनो रमते मनीषि
मुग्धागणे न हि तथा नियमाद् भवत्याः । त्वस्मिन्नमेय पणरोचिषि रत्नजाती
नैवं तु काचशकले किरणाकुलेऽपि ||२०|| चेतस्त्वयि श्रमणि! पातयते मनस्वी
स्याद्वादिनिम्ननयतः प्रयते यतोऽहम् । योगं समेत्य नियमव्यवपूर्वकेन ।
कश्चिन्मनो हरतिनाथ भवान्तरेऽपि ॥२१|| ज्ञानं तु सम्यगुदयस्यनिशं त्वमेव
व्यत्यास संशयधियो मुखरा अनेके। गौराङ्गि ! सन्ति बहुभाः ककुभोऽर्कमन्याः , प्राच्येव दिग् जनयति स्फुरदंशुजालम् ||२२||