________________
श्रीधर्मसिंहसूरिविरचितं । सरस्वती-भक्तामरम् ||
वसन्त तिलका. भक्तामरभ्रमरविभ्रमवैभवेन
लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयभित्तिमभीष्टभूमा
वालम्बनं भवजलेपततां जनानाम् ||१|| मत्वैव यं जनयितारमरंस्त हस्ते
या संश्रितां विशदवर्णलिपिप्रसूत्या । 'ब्राह्मी मजिह्मगुणगौरवगौरवर्णी
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।। -युग्मम् मातर् ! मतिं सति ! सहस्त्रमुखी प्रसीद AIR नालं मनीषिणि मयीश्वरि ! भक्तिवृत्तौ। वक्तुं स्तवं सकलशास्त्रनयं भवत्या
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ||३|| त्वां स्तोतुमत्र सति ! चारुचरित्रपात्रं
कंतु स्वयं गुणदरीजलदुर्विगाह्यम् । एतत् त्रयं विडुपगृहयितुं सुरार्दैि
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ||४|| त्वद्वर्णनावचनमौक्तिकपूर्णमीक्ष्य
मातर् ! न भक्तिवरटा तव मानसं मे। प्रीतेर्जगत्त्रयजन ध्वनिसत्यताया
नाभ्येति किं निजशिशो: परिपालनार्थम् ? ||५|| वीणास्वनं स्वसहजं यदवाप मुच्छौँ
श्रोतुर्न किं त्वयि सुवाक् ! प्रियजल्पितायाम् । जातं न कोकिलरवं प्रतिकूलभावं
तच्चारुचूतकलिका निकरैकहेतुः ।।६।। त्वन्नाममन्त्रमिह भारतसम्भवानां
भक्त्यैति भारति! विशां जपतामधौघम् | सद्यः क्षयं स्थगितभूवलयान्तरिक्ष
- सूर्याशुभिन्नमिव शार्वरमन्धकारम् ||७||