________________
२०
| श्री शारदा स्तोत्रम् ।
_ अनुष्टुप. श्वेतपद्मासनादेवी श्वेत पुष्पाभिशोभिता। श्वेतांबराधरानित्यं श्वेतगंधानुलेपना ||१|| श्वेताक्षी शुक्लवस्त्रा च श्वेतचन्दनचर्चिता। वरदेति शुक्ल गंधर्वैः शशिभिस्स्तूयसे सदा ||२|| स्तोत्रेण च तथा देवी गीर्धात्री च सरस्वती। ये पठन्ति त्रिकालंच सर्व विद्यां लभन्ते ते ||३||
इति सम्पूर्णम् ।
सरस्वती स्तोत्रं ।
TV अनुष्टुप. वाग्वादिनी नमस्तुभ्यं वीणा-पुस्तकधारिणी। मह्यं देहिवरं नित्यं हृदयेषु प्रमोदतः ||१|| काश्मीरमण्डनीदेवी हंसस्कन्दसवाहने । ममाऽज्ञानं विनाशाय कवित्वं देहि मे वरम् ||२|| जयत्यं विजयादेवी कविनां मोदकारिणी । देहि मे ज्ञान-विज्ञानं वाग्वादिनी सरस्वती ||३|| ॐ ह्रीं श्रीभगवती देवी श्री देहि वरानने । वाञ्छितार्थं प्रदात्री च वद वद वाग्वादिनी नमः ||४|| लक्षजापेन मन्त्रोऽयं गणित्वैकादशाचाम्लैः । इति स्तुता महादेवी सर्वसिद्धिप्रदायिका ||५|| इदं स्तोत्रं पवित्रं च ये पठन्ति नरः सदा।
तस्य नश्यन्ति मूढत्वं प्राप्नोति मंगलावलीम् ।।६।। के सरस्वतीस्तोत्रमिदं पवित्रं गुणैर्गरिष्ठं निजमंत्रगर्भितम् । पठन्ति ये रम्यमहर्निश जनाः लभन्ति ते निर्मलबुद्धिमंदिरम् ||७|
_इति स्तोत्रं सम्पूर्णम् ।