________________
भूपश्रीसुकुमारपाल सुगुरोः श्री हेमसूरिः प्रभो, व राम्नायदधिगम्य-मंत्रसुविधि मंत्राक्षरैस्तैः स्तुताः । प्रख्याताख्ययुता सुमुक्तिविमलाख्यर्षेः प्रबुद्धि प्रदा, जिह्वाग्रे मम सा वसत्वविरतं वाग्देवता सिद्धिदा ||८|| 'संवत् क्ष्मायुगनंदभूपरिमिते चैत्रासितैकादशी । घस्त्रे वार शनौ सुदर्शनमिदं वाग्देवता याः कृतम् । क्लप्तं स्तोत्रमिदं सुमुक्तिविमलेनाऽऽजारि संज्ञे पुरे, सन्मंत्रादियुतं सदा विजयतां यावन्मृगांकारुणौ ||९|| ५ मंत्र :- ॐ ह्रीं श्रीं क्लीं ऐं वद वद वाग्वादिनी !
सरस्वत्यै ह्रीं नमः | का इतिश्री मन्त्रगर्भितं स्तोत्रं सम्पूर्णम् ॥
१८ 1 श्री सुमतिसागरमुनिविरचितं-श्रीसरस्वतीस्तोत्रम् ।
द्रुतविलित - सरस Aild सुपरस.. सकललोकसुसेवितपङ्कजा वरयशोजितशारदकौमुदी। निखिलकल्मषनाशनतत्परा, जयतु सा जगतां जननी सदा ||१|| कमलगर्भविराजितभूवना मणिकीरिटसुशोभितमस्तका।
कनककुण्डलभूषितकर्णिका, जयतु सा जगतां जननी सदा ||२|| र वसु हरिद् गजसंस्नषितेश्वरी विधृतसोमकला जगदीश्वरी। के जलजपत्रसमानविलोचना जयतु सा जगतां जननी सदा ||३|| निजसुधै र्यजितामरभूधरा निहितपुष्करवृंदलसत्करा | समुदितार्कसदृक्तनुवल्लिका जयतु सा जगतां जननी सदा ||४|| विविधवाञ्छितकामदुधाम्बुता विशदपद्मनदान्तरवासिनी। सुमतिसागरवर्द्धनचन्द्रिका जयतु सा जगतां जननी सदा ||५|| ____ इति सुमतिसागरमुनिकृत स्तोत्रं समाप्तम् ।
૧.૧૯૪૧ ની સાલમાં ચૈત્ર સુદ ૧૧ શનિવારે, અજારિગામમાં, બનાવેલું આ સ્તોત્ર મંત્ર ગર્ભિત છે. અને તે શ્રી હેમચંદ્રાચાર્યના સરસ્વતી આમ્નાયમાંથી ઉદ્ધત रे छ. - पू. भुतिभिसम.