________________
Yel2020
૧૩
श्री मुनिसुंदरसूरि विरचितं श्रीसरस्वतीस्तोत्रम् ।
अनुष्टुप छंद
आराद्धा श्रद्धया सम्यग्ज्ञानादि-जयश्रियम् । ददती जगतां मात जय भारति देवते ||१|| चतुर्वरदवीणाक्ष- सूत्रपुस्तकभृद् भुजे । मरालवाहने शक्र-क्रियमाणाश्रय स्तवे ॥२॥ आद्ये श्री सूरिमन्त्रस्य विद्यापीठे पदे स्थिते । श्रीमद्गौतमपादाब्ज परिचर्या मालिके ||३|| श्रीजिनेन्द्रमुखाम्भोज-विलासं वसते सदा । जिनागमसुधाम्भोधि मध्यासिनि विधुद्युते ||४|| कविहृत्कमला क्रीडप्रबोध तरणि प्रभे । प्रसीद भगवत्याशु देहि भारति मेऽर्थितम् ||५|| ऐं नमः प्रमुखैर्मन्त्रै राराध्ये विश्वदेवते । अरुन्मणिलताजैत्र- प्रभावसुभगे जय ||६|| आराध्यादर्शनैः सर्वैः सकलाभिष्टदायिनी । रातु बोधिं विशुद्धां मे वाग्देवी जिनभक्तिभृत् ||७|| स्तूयमाने महानेकमुनिसुंदरसंस्तवैः । स्तुते मयापि मे देहि प्रार्थितं श्रीसरस्वती ||८ll इति सरस्वती देवी स्तोत्र सम्पूर्णम् ॥