________________
श्री मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः । तद्बाह्ये भूपुरं लेख्यं शिलायां तालकादिना । + कोषादिस्तम्मनं कुर्यात् पीतपुष्पैः सुपूजितम् || ६२ ॥
ॐ ग्लौं क्षं ठं लं स्वाहा । संलिख्य नामाष्टदलाब्जमध्ये मायावृतं षोडशसत्कलाभिः । कॅली ब्लू तथा द्रामथ योजयित्वा दिक्थेषु पत्रेषु सदा क्रमेण ||६३||
होम लिखेदकुशबीजमुच्चैः किश्चान्यपत्रेषु बहिस्त्रिमूर्तिः । भूर्जे हिमाद्यैर्विधृतं स्वकण्ठे सौभाग्यवृद्धि कुरुतेऽङ्गनानाम् ॥६४|| क्षजभमहरेफपिण्डैः पाशाङ्कुशबाणरञ्जिकायुक्तैः । सौभाग्यरक्षा |
प्रणवाद्यैः कुरु मन्त्रिन् । षट् कर्माण्युदयमवगम्य ||६५|| ॐक्षयूँ जम्ल्वयूँ भव्यूँ मयूँ हम्ल्यूँ डुम्ल्यूँ आँ काँ ह्रीं क्लीं ब्लू/ द्रीं द्रीं संवौषट् त्रिभुवन' सारः । सहस्त्र १२ जपः । दशांशेन होमः ॥
वश्यविद्वेषणोच्चाटे पूर्वमध्यापराहणके । सन्ध्यार्धरात्ररात्र्यन्ते मारणे शान्तिपौष्टिके ||६६|| वषड् वश्ये फडुच्चाटे हुं द्वेष पौष्टिके स्वधा । संवौषडाकर्षणे स्वाहा शान्तिकेऽप्यथ मारणे ||६७|| पीतारुणासितैः पुष्पैः स्तम्भनाकृष्टिमारणे । शान्तिपौष्टि कयोः श्वेतै जपेन्मन्त्रं प्रयत्नतः ||६८|| कुर्याद् हस्तेन वामेन वश्याकर्षणमोहनम् । शेषकर्माणि होमं च दक्षिणेन विचक्षणः ॥ ६९ ॥ उदधीन्द्रमारुतान्तक नैर्ऋतकुबेरदिक्षु कृतवदनः । शान्तिकरोधोच्चाटन मारणसम्पुष्टिजनवश्यः ||boll शान्तिपुष्टौ भवेद्धोमो दूर्वाश्रीखण्डतण्डुलैः ।। महिषाक्षरङकाम्भोजैः पुरक्षोभो निगद्यते ||७१| करवीरारुणैः पुष्पैरङ्गना क्षोभमुत्तमम् । होमैः क्रमुकपत्राणां राजवश्यं विधीयते ||७२। गृहधूपनिम्बपत्रै द्विजपक्षलवणराजिकायुक्तैः । हतैस्त्रिसन्ध्यविहितै विद्वेषो भवति मनुजानाम् ||७३|| प्रेतालयास्थिखण्डैबिंभीतकाङ्गारसमधूमयुतैः ।। सप्ताहविहितहोमैररातिमरणं बुधै ईष्टम् ||७४||
--
१ ॐ ग्लाँ क्षं ठं लं स्वाहा । २ होमां । ३ त्रिभुवने । ४ पुष्टिकयोः । ५ वश्ये ।