________________
७० ॐ श्रीं श्रीं श्रीं स्तोम्यहं त्वां मम खलु रसनां मा कदाचित् त्यजत्वम्,
मा मे बुद्धि विरुद्धा भवतु न च मनो यातु मां देवि! पापम् । मा मे दुःखं कदाचित् विपदि च समयेऽप्यस्तु मे नाकूलत्वम्, शास्त्रे वादे कवित्वे प्रसरतु मम धी माऽस्तु कुण्ठा कदाऽपि ॥६॥ इत्येतै: श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो, वाणी वाचस्पतेऽप्यविदित विभवो वाच्यतत्त्वार्थवता। स स्यादिष्टार्थ लाभः सुतमिव सततं पाति तं सा च देवी, सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति ||७|| निर्विघ्नं तस्य विद्या प्रभवति सततं चाऽऽशुशास्त्रप्रबोधः,
कीर्तिस्त्रैलोक्य मध्ये निवसति वदने शारदा तस्य साक्षात् । से दीर्घायु लॊकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो,
वाग्देव्या सत्प्रसादात् त्रिजगति विजयो जायते तस्य साक्षात् ।। ब्रह्मचारी व्रती मौनी त्र्योदश्या महर्निशम् । सारस्वतो जनःपाठाद् भवेदिष्टार्थ लाभवान् ॥९॥
NA पक्षद्वये त्र्योदश्यामेकविंशतिसंख्यया। अविच्छिन्नं पठेद् यस्तु सुभगो लोकविश्रुतः ||१०|| शुक्लाम्बरां धरां देवीं शुक्लाभरणभूषिताम् ।
वाञ्छितं फलमाप्नोति षण्मासैर्नात्र संशयः ||११|| AC ॐ हीं ऐं घी क्लीं सौं श्री वद वद वाग्वादिन्यै स्वाहा || भूमंत्र. _मालां शिरसि धृत्वा
त्वं माले सर्व देवानां सर्व कामप्रदामता। तेन सत्येन मे सिद्धिं देहि मात नमोऽस्तु ते ॥ इत्यर्पणम् ॥
। इति स्तोत्रं सम्पूर्णम् ।