________________
निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रतं ग्रंथ बोधे,१ नकीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् । दीर्घायु लॊकपूज्य: सकलगुणनिधि: संततं राज्यमान्यो, वाग्देव्याः सुप्रसादात् त्रिजगति विजयी जायते सत्सभासु ||१०|| अनुष्टुप. ब्रह्मचारी व्रती मौनी त्र्योदश्यां निरामयः। सारस्वतो जनः पाठात् स स्यादिष्टार्थलाभवान् ||११|| पक्षद्वये योदश्यामेकविंशतिसंख्यया। अविच्छिन्नं पठेद्धीमान् ध्यात्वादेवीं सरस्वतीम् ।।१२।। सर्वपापविनिर्मक्तः सुभगो लोकविश्रुतः । वांछितं फलमाप्नोति लोकेस्मिन्नात्र संशयः ||१३|| इंद सारस्वतं स्तोत्रं वांछितं फलदायकं । पठेन्नरश्च सततं ब्रह्मलोके महीयते ||१४||
HOM
इति श्री ब्रह्मांडपुराणेनारदनंदकेश्वरसंवादे ब्रह्मणोक्तं
सरस्वतीस्तोत्रसम्पूर्णम् ||
उ मंत्रगर्भितब्रह्मणाकृत-श्रीसारस्वतस्तोत्रम् पाट९६. प्र. १४१४०, १४७५० ने.वि.अ. शानमार सूरत, उमा ४35/3८८२
स्त्र०५२॥ - आभूसालोलली... ह्रीं ह्रीं हृद्यैक बीजे शशिरुचिकमलेकल्पविस्पष्ट शोभे, भव्ये भव्यानुकूले कुमतिवनदहे विश्ववंद्याङ्घ्रि पझे। पद्म पद्मोपविष्टे प्रणतजनमनो मोदसंपादयित्री, 'प्रोत्फुल्लज्ञानकुले हरिनिजदयिते देवि संसार सारे ||१|| पएँ ऐं क्ली दृष्टमंत्रे कमलभुजमुखांभोजरूपे सरूपे, रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे । न स्थूले नाति सूक्ष्मेऽप्य विदित विषये नाप्यविज्ञाततत्वे, विश्वे विश्वांतराले सुरवरनमिते निष्कले नित्यशुद्धे ॥२॥
१ बोधैः । २ निरामिषैः । ३ द्वयेऽपि यो भक्त्या त्र्योदश्येकविंशति । ४ ह्रीं ह्रीं ह्रीं । ५ प्रोत्क्रूष्टे हाँन कूटे । ६ एँ ऐं ऐं दृष्ट । ऐं क्ली छू घृष्ठ । ७ आत्मारूपप्रकाशे ।