________________
अहँ नमः ॥ ऐं नमः ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ रत्नप्रभालङ्कृता जैनतर्कभाषा प्रमाणपरिच्छेदः
यज्ज्ञाने भाति विश्वं करबदरमिवाऽतीतदोषस्य यस्य, वाणी सत्याऽनवद्या मितिनयभजनोद्गारकान्ताऽमितार्था । देवेन्द्राप्तैः सुपूज्यं जिनवरमखिलं मङ्गलं मङ्गलानां, विघ्नव्रातापनुत्यै तमतनुविभवं नौमि योगीशगम्यम् ॥१॥ येषां तत्त्वार्थचर्चा स्वपरमतगता नाऽपसिद्धान्तमुख्यैर्दोषैः स्पृष्टा गुणौघैरथ परिकलिता बोधसम्पादयित्री । तान् श्रीमद्धेमचन्द्रप्रभृतिबुधवरान् सर्वतन्त्रस्वतन्त्रानाचार्यान्नौमि भक्त्या जिनमतविततोल्लासदत्तावधानान् ॥२॥ ऊहापोहानुषक्तामितप्रमितिलसनव्यमार्गप्रचाराऽऽचान्तस्वान्तावभातातिगहनमननालीढप्राचीनपक्षाः । न्यायाचार्याः परार्थातनुतनुरचनासूत्रधारा नमस्याः, सन्तूपाध्यायवर्या मम मननविधौ साक्षिणो मानसस्थाः ॥३॥ श्रीमन्तो नेमिसूरीश्वरगुरुप्रवराः सर्वविद्याविदग्धा, न्यायालोकादिजैनाभ्युपमतविषयग्रन्थटीकापटिष्ठाः । श्रीहैमव्याकृतेरप्यनुगतिरचनालम्पट धर्मशास्त्रव्याख्यानैकान्तदक्षा नुतचरणकजाः सन्तु विघ्नौघशान्त्यै ॥४॥ श्रीनेमिसूरीश्वरशिष्यरत्न-रत्नप्रभादिप्रतिबोधनाय ।
रत्नप्रभाख्यां मिततर्कभाषा-व्याख्यां करोमि प्रकटार्थभावाम् ॥५॥ चिकीर्षितग्रन्थनिर्विघ्नसमाप्तये, शिष्टाः क्वचिदप्यभीष्टे प्रवर्तमाना मङ्गलपुरस्सरमेव प्रवर्तन्त इति शिष्टाचारपरिपालनाय च कृतं मङ्गलम्, शिष्या अप्येवं कुर्युरिति शिष्यशिक्षायै ग्रन्थादौ निबध्नन् ग्रन्थाध्ययनप्रवृत्त्यनुकूलानुबन्धचतुष्टयमुपदर्शयन् प्रतिजानीते
१. मिति: प्रमाणम् ।