________________
जैनतर्कभाषा (मूल)
२७७
पर्यायवद्द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् । 'क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात्, सुखलक्षणस्य तु धर्मस्य तद्विशेषणत्वेनाऽमुख्यत्वात् । ने चैवं द्रव्यपर्यायोभयावगाहित्वेन नैगमस्य प्रामाण्यप्रसङ्गः, प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् ।
1
सामान्यमात्रग्राही परामर्शः सङ्ग्रहैः- स द्वेधा परोऽपरश्च । तत्राऽशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सग्रहैः । यथा विश्वमेकं सदविशेषादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः ।
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहारः' । यथा यत् सत् तद् द्रव्यं पर्यायो वा । यद् द्रव्यं तज्जीवादिषड्विधम् । यः पर्यायः सद्विविधः - क्रमभावी सहभावी चेत्यादि ।
१॰ऋजु वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्राय ऋजुसूत्रः । यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाऽर्प्यत इति ।
११कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । १२ तत्र बभूव भवति भविष्यति सुमेरुरित्यत्राऽतीतादिकालभेदेन सुमेरोर्भेदप्रतिपत्तिः, करोति क्रियते कुम्भ इत्यादौ कारकभेदेन, तटस्तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ सङ्ख्याभेदेन, यास्यसि त्वम्, यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन ।
१३ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । शब्दनयो हि पर्यायभेदेऽप्यर्था - भेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति, यथा १४इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्वारणात्पुरन्दर इत्यादि ।
१५शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन्नेवम्भूतः । यथेन्दनमनुभवन्निन्द्रः । समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रैति, क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात्, पशुविशेषस्य १६ गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । न हि कश्चिदक्रियाशब्दोऽस्याऽस्ति । गौरव इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्,
१. तुलना -प्र० न० ७. १० । तत्त्वार्थश्लोकवा० १. ३३. ४३ । २. तुलना - तत्त्वार्थश्लोकवा० १. ३३. २२, २३ । ३. प्र० न० ७. १३ । तुलना - लघीय० ६. १९ । तत्त्वार्थश्लोकवा० १.३३. ५१, ५५ । ४. तुलना - प्र० न० ७. १४ । ५. प्र० न० ७ १५ । ६. तुलना - प्र० न० ७. १६ । ७. प्र० न० ७. १९ । ८. प्र० न० ७. २३ । तत्त्वार्थश्लोकवा० १. ३३.५८ । ९. तुलना - प्र० न० ७ २४ । १०. तुलना - प्र० न० ७.२८, २९ । तत्त्वार्थश्लोकवा० १.३३.६१ । ११. प्र० न० ७. ३२ । तुलना - लघीय० ६ १४ । तत्त्वार्थश्लोकवा० १. ३३. ६८-७२ । १२. तुलना प्र० न० ७. ३३ । १३. प्र० न० ७. ३६ । तुलना - तत्त्वार्थश्लोकवा० १. ३३.७६, ७७ । १४. तुलना प्र० न० ७.३७ । १५. प्र० न० ७. ४०, ४१ । तुलना - तत्त्वार्थश्लोकवा० १. ३३. ७८,
७९ । १६. - ०स्य च गमन० प्र० व० ।