________________
२६२
परिशिष्ट-१ इत्यवगृहीतः' इति सूत्रार्थः, तत्र शब्दाद्युल्लेखराहित्याभावादिति चेत्, न, 'शब्दः' इति वक्त्रैव भणनात्, रूपरसादिविशेषव्यावृत्त्यनवधारणपरत्वाद्वा । यदि च 'शब्दोऽयम्' इत्यध्यवसायोऽवग्रहे भवेत् तदा शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वादविग्रहस्यैकसामा(म)यिकत्वं भज्येत । स्यान्मतम्-'शब्दोऽयम्' इति सामान्यविशेषग्रहणप्यर्थावग्रह इष्यताम्, तदुत्तरम्-'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह, न तु शार्ङ्गधर्माः खरकर्कशत्वादयः' इतीहोत्पत्तेः-इति, मैवम्, अशब्दव्यावृत्त्या विशेषप्रतिभासेनाऽस्याऽपायत्वात्, स्तोकग्रहणस्योत्तरोत्तरभेदापेक्षयाऽव्यवस्थितत्वात् । किञ्च, 'शब्दोऽयम्' इति- ज्ञान(नं) शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम्, सा च नाऽगृहीतेऽर्थे सम्भवतीति तद्ग्रहणमस्मदभ्युपगतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम्, स च व्यञ्जनावग्रहकालोऽर्थपरिशून्य इति यत्किञ्चिदेतत् ।
नन्वनन्तरम्-'क एष शब्दः' इति शब्दत्वावान्तरधर्मविषयकेहानिर्देशात् 'शब्दोऽयम्' इत्याकार एवावग्रहोऽभ्युपेय इति चेत्, न, 'शब्दः शब्दः' इति भाषकेणैव भणमात्-अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशात्, अव्यक्तस्य च सामान्यरूपत्वादनाकारोपयोगरूपस्य चाऽस्य तन्मात्रविषयत्वात् । यदि च व्यञ्जनावग्रह एवाऽव्यक्तशब्दग्रहणमिष्येत तदा सोऽप्यर्थावग्रहः स्यात्, अर्थस्य ग्रहणात्।
केचित्तु-'सङ्केतादिविकल्पविकलस्य जातमात्रस्य बालस्य सामान्यग्रहणम्, परिचितविषयस्य त्वाद्यसमय एव विशेषज्ञानमित्येतदपेक्षया "तेन शब्द इत्यवगृहीतः" इति नाऽनुपपन्नम्'-इत्याहुः, तन्न, एवं हि व्यक्ततरस्य व्यक्तशब्दज्ञानमतिक्रम्यापि सुबहुविशेषग्रहप्रसङ्गात् । न चेष्टापत्तिः, 'न पुनर्जानाति क एष शब्दः' इति सूत्रावयवस्याऽविशेषेणोक्तत्वात्, प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्मग्रहणानुपपत्तेश्च ।
____ अन्ये तु-'आलोचनपूर्वकमर्थावग्रहमाचक्षते, तत्रालोचनमव्यक्तसामान्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिः'-इति, तदसत्, यत आलोचनं व्यञ्जनावग्रहात् पूर्वं स्यात्, पश्चाद्वा, स एव वा ? नाऽऽद्यः, अर्थव्यञ्जनसम्बन्धं विना तदयोगात् । न द्वितीयः, व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः, व्यञ्जनावग्रहस्यैव नामान्तरकरणात् , तस्य चाऽर्थशून्यत्वेनाऽर्थालोचनानुपपत्तेः । किञ्च, आलोचनेनेहां विना झटित्येवार्थावग्रह: कथं जन्यताम् ? युगपच्चेहावग्रहौ पृथगसङ्ख्येयसमयमानौ कथं घटेताम् ? इति विचारणीयम् । नन्ववग्रहेऽपि क्षिप्रेतरादिभेदप्रदर्शनादसङ्ख्यसमयमानत्वम्, विशेषविषयत्वं चाऽविरुद्धमिति चेत्, न, तत्त्वतस्तेषामपायभेदत्वात्, कारणे कार्योपचारमाश्रित्याऽवग्रहभेदत्वप्रतिपादनात्, अविशेषविषये विशेषविषयत्वस्याऽवास्तवत्वात् ।
अथवा अवग्रहो द्विविध:-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामान्यमात्रग्राही, द्वितीयश्च विशेषविषयः-तदुत्तरमुत्तरोत्तरधर्माकाङ्क्षारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं विनेहानुत्थानप्रसङ्गात्, अत्रैव क्षिप्रेतरादिभेदसङ्गतिः, अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् ।
[ईहावायधारणानां क्रमशो निरूपणम् ।] अवगृहीतविशेषाकाङ्क्षणम्-ईहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत्, यथा-'श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्' 'मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना' वा इति। न १. प्र० मी० १. १. २७ ।