________________ (422) शोचन्ति स्वजनानन्तं नीयमानान्स्वकर्मभिः / नेष्यमाणं तु शोचन्ति नात्मानं मन्दबुद्धयः // 4 // संसारे दुःखदावाग्निज्वलज्ज्वाला करालिते / वने मृगार्मकस्येव शरणं नास्ति देहिनः // 5 // अष्टाङ्गेनायुर्वेदन जीवातुभिरथाङ्गदैः / मृत्युञ्जयादिभिर्मन्त्रैस्त्राणं नैवास्ति मृत्युतः // 6 // खड्गपञ्जरमध्यस्थचतुरङ्गचमूवृतः / रङ्कवत्कृष्यते राजा हठेन यमकिङ्करैः // 7 // यथा मृत्युप्रतीकारं पशवो नैव जानते / विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढता // 8 // येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् / यमभ्रमङ्गभीतास्तेऽध्यास्ये निदधतेऽङ्गुलीः // 9 // मुनीनामप्यपापानामसिधारोपमैवतैः / न शक्यते कृतान्तस्य प्रतिकतु कदाचन // 10 // अशरण्यमहो ! विश्वमराजकमनायकम् / तदेतदप्रतीकारं ग्रस्यते यमरक्षसा // 11 // योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति / शुभां गतिं ददानस्तु प्रवि कति कीर्त्यते // 12 // प्रव्रज्यालक्षणोपायमादायाक्षयशर्मणे। . चतुर्थपुरुषार्थाय यतितव्यमहो ! ततः // 13 //