________________
॥ २२॥ I
उपक्रमः।
Zeeeeeeeeareer
N/ प्रान्ते “सं. १८२८ वर्षे शाके सोल ९४ आषाढमासे शुक्लपक्षे १ तिथौ वार भौमे । पं. उत्तमविजयगणि लिपीकृतं श्री पार्श्व
नाथजी प्रसादात् कोयलपुरपत्तनेxxxx" रूपोल्लेखः समुपलभ्यते । ____ नं. ३१ प्राच्यहस्तलिखितप्रतिसंग्रहेषु नानाविधा प्रतयः श्री उपदेशमाला-शकुनावलि-स्वरूपज्ञापिका उपलभ्यन्ते । ऐतिह्यसंशोधक-विद्वद्वर्यपूज्यमुनिराजश्री दर्शनवि. (त्रिपुटी) विरचितविश्वप्रभापराख्य-श्रीदिनशुद्धिदीपिकाग्रन्थस्य दशमे परिशिष्टे श्रीउपदेशमालागाथा-शकुनेत्यभिधयोपदेशमालायाः सकोष्टका शकुनावली न्यस्तास्ति । तथा च प्रबलप्रतापि-श्रीतपागच्छाधिपति श्रीविजयसेनसूरीश्वरप्रसादीकृतप्रश्नोत्तरसमहरूप-श्रीसेनप्रश्राख्यग्रन्थे ( उल्लास ४ प्र १३५. ११८ पृ. १. पं. ४) साचोर श्रीसङ्घन पृष्टप्रश्ननवके सप्तमो हि प्रश्न एवमुपलभ्यते यत्:-" तथा कश्चित्परपक्षी प्रार्थनां करोति, तदर्थमुपदेशमाला-गाथावलोकने दूषणं लगति नवेति प्रश्नः । यदि स निष्कपटतया प्रार्थनां करोति तदर्थमुपदेशमाला-गाथाऽवलोकने सर्वथा दूषणं ज्ञातं नास्तीति ।" एतेन चोपदेशमालागाथाशकुनावल्याः कियान् प्रथीयान् प्रचारो भवेदिति वितर्कणा सहजा भवति । एतच्चोपदेशमा| लायाः सर्वसाधारणोपयोगिता प्रतिपादनायालम्भूष्णु प्रमाणश्च विज्ञेयं । ___एतया सूच्या निश्चप्रचं विज्ञायते :-नानाविधविनेयजनानुग्रहायेमामत्युपकारिणीमुपदेशमाला विविधव्याख्याप्रकारैः सुगमा विधित्सुभिः पूर्वाचार्यप्रभृतिभिरेतस्या सार्वजनीनता ध्वनिता। अन्यच्च समर्थप्रतिभाशालिभिर्नव्यन्यायाम्भोनिधिव्यालोडनक्षमैलघु हरिभद्रसूरिभिायविशारदन्यायाचार्यादिसद्भूतोपमाभ्राजिभिः श्रीयशोविजयवाचकपुङ्गवैः दुष्षमारप्रभावव्यावर्णकेषु सपादशत (१२५) सार्द्धत्रिशत (३५०) गाथामितेषु श्रीसीमन्धरजिनविज्ञप्तिस्तवनेषु स्थाने २ एतद्ग्रन्थगाथा साक्षित्वेनोद्धृत्य समस्तसाहित्यावतंसभूतता एतस्या प्रमाणीकृतेति स्पष्टतरं प्रतीयते, तथाहिः
OpecreocexcecrememoreDece