________________
३९२
काव्यमाला।
अत्र किसलयस्य भैमीकराधरप्रतियोगिकसादृश्यसिद्धिर्बालत्वप्राप्तिद्योत्या। यथा वा'परभृततरुणीनां सम्यगायाति गातुं
न तव तरुणि वाणीयं सुधासिन्धुवेणी । कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसा
वुपवनविपिनाने नाश्रितामेडितेन ॥' अत्र पिकगिरां भैमीवाक्सादृश्यासिद्धिर्व्यङ्गया। 'आरब्धे दयितामुखप्रतिसये(?)निर्मातुमस्मिन्नपि
व्यङ्गयं जन्मसमानकालमिलितामंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः.
संकोचादतिदुःस्थितस्य न विधेस्तच्छीलमुन्मीलितम् ॥' अत्र चन्द्रस्य मुखानुपमत्वं व्यङ्गयम् । प्रथमयोः कार्यपूर्वकमत्र कारणपूर्वकम् ।
द्वितीयं यथा हरिवंशे'तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि पूर्णबिम्बः । त्वत्केशपाशप्रतिनिरुद्धो बलाहकैश्चारुनिरन्तरोऽभूत् ॥' यथा वा'यत्पीयूषमयूखमालिनि तमस्तोमावलीढायुषां
नेत्राणामपमृत्युहारिणि पुनः सूर्योढ एवातिथौ । अम्भोजानि पराश्चि तं निजमघं दत्वेव तेभ्यस्ततो
गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ॥' यथा वा‘गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः
शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । १. 'ताभिरामेडितेन' इति नैषधीयपाठः.