________________
३३८
काव्यमाला। चित्रार्थी न बृहत्कथामचकथं सुत्राम्णि नासं गुरु
देव त्वद्गुणवर्णनं कथमहं कर्तुं जडः शकुयाम् ॥ इत्यादौ च कार्यबोधकपदजन्यान्वयबोधजनकपदजन्यान्वयबोधविषयत्वमेव हेतोरिति नातिव्याप्तिः। तत्र हि मम त्वद्गुणवर्णनशक्तत्वाभावो मम व्यासत्वाद्यभावप्रयुक्त इति फलितार्थः । तत्राहं त्वगुणवर्णनशक्त्यभाववानिति कार्यबोधकपदमहंपदमपि । तदेव च 'व्यास्थं नैकतया-' इत्यादिकारणबोधकपदजन्यान्वयबोधजनकमप्यस्ति । तत्राप्यहंपदस्य विशेष्यत्वादिति दिक् ॥ ___ यत्तु रसगङ्गाधरे— 'अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम्' इति लक्षणं कृत्वा उपपादकत्वेनेत्यस्य न तु शब्दात्तेन रूपेण बोधित इत्यर्थकतया शब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणं प्रयोजनम् । तेन
'भयानकत्वादसि वर्जनीयो दयाश्रयत्वादसि देव सेव्यः ।। इत्यत्र न व्यभिचारः-इत्युक्त्वा
'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै
रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ 'पन्ते तीर्थानि त्वरितमिह यस्योद्धतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये
पुनाना सर्वेषामघमथनदपै दलयसि ॥ इत्युदाहृतम् । तत्परस्परविरुद्धमिति स्पष्टमेव । हेत्वर्थकशतृप्रत्ययेन हेतुत्वस्य बोधितत्वात् । अन्यथा पञ्चम्यापि तद्वोधानुपपत्तेः । 'हरिं पश्यन्मुच्यते' इत्यादौ भगवदर्शनमुक्त्योः कार्यकारणभावप्रत्ययस्य सर्वानुभवसिद्धत्वात् । तत्र 'हेतुभूतहरिदर्शनाश्रयो मुच्यते' इति बोधस्यावश्यक
वयन
त् । तत्र तानमुत्योः कार्यकाबानुपपत्तेः ।