________________
२८०
काव्यमाला। अत्र राजदर्शनात्प्रागेव कवीनां संपत्तिरुक्ता । द्वितीया यथा मम
'यस्मिन्क्षणे चकितबालमृगेक्षणायाः ___कर्णान्तभूमिमभिजृम्भितवान्कटाक्षः । तत्रैव मन्मथशिलीमुखसंचयेन
___ मन्मानसं समभवन्निचितं समन्तात् ॥' अत्र कटाक्षबाणवेधयोरेकक्षणोत्पत्तिप्रतिपादनात्सहभावः । अत्र प्रथमातिशयोक्तौ प्रकृताप्रकृतेति सामान्यत एवोपादानात् । शुद्धसाध्यवसानलक्षणया अभेदोपचारेऽपि अतिशयोक्तिरेव । तत्र धर्मभेदे धर्म्यभेदाध्यव- ' सायो यथा
'कर्णलम्बितकदम्बमञ्जरीकेसरारुणकपोलमण्डलम् ।
निर्मलं निगमवागगोचरं नीलिमानमवलोकयामहे ॥' अत्र नीलत्वाश्रये भगवति नीलत्वारोपः । चन्द्रोऽयमित्यादौ सादृश्यस्याध्यवसाननिमित्तत्वाद्गौणत्वम् । आश्रयत्वादिसंबन्धस्य तन्निमित्तत्वे तु शुद्धत्वमिति विवेकः।
'भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौइति काव्यप्रकाशोक्तेः । तस्मात्सादृश्यातिरिक्तेन संबन्धेन यत्रान्यस्मिनन्यत्तादात्म्यारोपः सा शुद्धसाध्यवसानेति विज्ञेयम् । कार्ये कारणाभेदाध्यवसानं यथा'तो हरिवइजसपन्थो राहवजीअस्स पढमहत्थालम्बो ।
सीआवाहविमोक्खो दहमुहवज्झदिअहो उवगओ सरओ ॥' अत्र बाष्पविमोक्षहेतुत्वेन तदारोपः॥ १. 'ततो हरिपतियशःपथो राघवजीवस्य प्रथमहस्तालम्बः ।
सीताबाष्पविमोक्षो दशमुखवध्य दिवस उपगता शरत् ॥ [इति सेतु० १।१६)