________________
विचार- | अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथा ह्यनन्तमरण्यमतिमहत्वात्, तच्चतुरन्तं दिग्भेदादिति निदानं sel रत्नाकरः भोगद्धिप्रार्थनास्वभावमार्तध्यानं तद्वर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता
वा तया । इति श्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके ३१० प्रतौ ७४ पत्रे ॥ ८८ ॥
नच वाच्यमत्र योगस्य समाधिस्थायितेत्यर्थष्टीकायां व्याख्यात एव, सत्यं भवतष्टीका यदि प्रमाणं तर्हि श्रुतोपधानकारित्वमित्यनेनार्थेन
किमपराद्धम् ? न च श्रुतान्तरासङ्गतोऽयमर्थ इति ब्रुवीथाः, 'जोगवं उवहाणवं' इत्याद्युत्तराध्ययनोक्तानामन्येषामपि शास्त्राक्षराणां ||२७९ प्राग्दर्शितत्वादिति ।
अथ केचिच्छ्रमणोपासकाः सार्मिकवात्सल्यादावादशाकादिसंस्कृतौ पापं शङ्कन्ते परं तदयुक्तम्, सदारम्भे पुण्यभूयस्त्वात्, पापस्याल्पत्वात् । इत्थमेव च तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणं पाणं खाइमं साइमं जाव पडिला माणस्स किं कज्जति ? गोयमा ! बहुयरा से निज्जरा कज्जइ" । इत्यादि भगवतीसूत्रं सङ्गच्छते । अस्यां च शङ्कायां विचार्यमाणायां विशेष(जिन) प्रासादाद्यपि अकर्तव्यमापद्येत । अलं वा युक्तिविस्तरेण । उक्तमपि पूर्वसूरिभिः फलपुष्पपत्रादिविशिष्टसामग्र्या साधर्मिकवात्सल्यम् । यथा-" तं अत्थं तं च सामत्थं, तं विन्नाणं सुउत्तमं । साहम्मियाण कज्जमि, जं वच्चंति सुसावया ॥१॥ अन्नन्नदेसाउ समागयाणं, अन्नन्नजाईउ समुब्भवाणं । साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणे ठियाणं ॥ २ ॥ वस्थन्नपाणासणखाइमेहि, पुप्फेहिं पत्तेहिं य सप्फलेहिं । सुसावयाणं करणिज्जमेयं, कयं तु जम्हा भरहाहिवेणं ॥ ३ ॥ वज्जाउहस्स रामेण, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु, तहा वच्छल्लयं करे ॥ ४ ॥ साहम्मियाण वच्छल्लं, एयं अन्नं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥ २०६ ॥ इति श्रीश्रावकदिनकृत्ये ॥ ८९॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयनाम्नी वेला समाप्ता ।।
||२७९॥ - अनेकसिद्धान्तविचाररत्न-रम्ये गुरुपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राप्ता समाप्ति रसरम्यवेला ॥ १॥